________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर-बालातपासहितम्
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
'स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयीति कोशाद्वेदत्रयरूपा । तथा च कूर्मपुराणे हिमवन्तं प्रति देवीवचनम्
'ममैवाज्ञा परा शक्तिर्वेदसंज्ञा पुरातनी ।
ऋग्यजुः सामरूपेण सर्गादौ सम्प्रवर्तते ॥'
इति । पद्मपुराणेऽपि - 'आन्वीक्षिकी त्रयी देवि दण्डनीतिश्च कथ्यस इति । देवीपुराणेऽपि -
'ऋग्यजुः सामभागेन साङ्गवेदगता यतः । त्रयीति पठ्यते लोके दृष्टादृष्टप्रसाधनी ॥
इति । नित्यातन्त्रे तु -
'अकारादिः सामवेदो ऋग्वेदश्च तदादिकः । यजुर्वेद इकारादिस्तेषां संयोगतः शुचिः ॥ तन्निष्पत्तिं शृणु प्राज्ञे प्रोक्तान्पूर्वाधरक्रमात् । विलिख्य योजयेत्पूर्वं शब्दशास्त्रानुसारतः ॥ गुणसन्ध्या ऋग्यजुषं ततस्तेनापरं तथा । वृद्धिसन्ध्या समायुञ्ज्यादित्युत्पन्नं शुचेर्वपुः ॥ तेन त्रयीमयी विद्या कार्यकारणयोगतः ।'
'त्रयो लोकास्त्रयो देवास्त्रैविद्यं पावकत्रयम् । त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मादयस्तथा ॥ यो गुणास्त्रयः शब्दास्त्रयो दोषास्तथाश्रमाः । त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ॥ मात्रात्रयं च ते रूपं त्रिस्थे देवि सरस्वती ।'
Acharya Shri Kailassagarsuri Gyanmandir
इत्युक्तम् । अत्र शुचिशब्देन वाग्भवं बीजमुच्यते । तेन तद्रूपेत्यर्थो वा । 'त्रिवर्गो धर्मकामार्थैरिति कोशः | तस्य निलयः स्थानं यस्याम् । त्रिषु भूतादिकालेष्वकारोकारमकारेषु वा स्था स्थितिर्यस्याः । त्रिषु लोकादिष्वभेदेन तिष्ठतीति वा त्रिस्था । तदुक्तं मार्कण्डेयपुराणे
इति । अन्तर्दशारचक्राभिमानिनी देवता त्रिपुरमालिनी ।
283
For Private and Personal Use Only
त्रयी वेदत्रयरूपा । त्रय्यै इति || त्रिवर्गो धर्मादित्रयं तस्य निलयः स्थानं यस्या सा । निलयायै इति ॥ त्रिषु मातृमानमेयादित्रित्रिभेदनियतेषु तिष्ठतीति सा । त्रिस्थायै इति ॥ त्रयाणां पुराणां स्थूल सूक्ष्म - कारणदेहानां माला परम्परा अस्यामस्तीति सा । मालिन्यै इति ॥