________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
280
ललितासहस्रनामस्तोत्रम् विश्वनिर्माणविषयिणी पराहन्ता सास्याः सञ्जाता । तारकादित्वादितच् । गानं ततानद्धसुषिरघनचतुष्टयसमुच्चयात्मकम्, वादित्रादिकं वा, शारीरं गान्धर्वं वा, साम वा तयोर्लोलुपा सतृष्णा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ २११ ॥
कल्पना वासनामय्यो दृश्यवीचयस्ताभी रहिता । तासां कल्पितत्वादेव । यद्वा कल्पेऽपि नाराणां हिता । 'संवर्तः प्रलयः कल्प' इति कोशः । 'नृ नय' इति धातोः । 'नयतीति नरः प्रोक्तः परमात्मा सनातन' इति स्मृत्या च । नरस्येमे नारा जीवाः । सकलनाशकारिणि प्रलयकालेऽपि जीवानां स्वोदरे वासनारूपतया स्थापने हितक: किमुत सृष्टिस्थितिकाल इति यावत् । उक्तं चाष्टावक्रगीतायाम्
'मय्यनन्ते चिदम्भोधावाश्चर्य जीववीचयः ।
उद्यन्ति नन्ति खेलन्ति प्रविशन्ति स्वभावतः॥ इति । अष्टादशनिमेषात्मकः कालः काष्ठा । दारुहरिद्रापि काष्ठा । सा हि स्कन्धनाभिनालपरिणामरूपत्वाच्छिवशक्त्ययोरभिन्नैवेति मैरालतन्त्रे कथा | 'काष्ठा दारुहरिद्रायां कालमानप्रभेदयो रिति रभसः । तदुभयरूपा । वेदान्तवाक्यार्थतत्त्वनिष्कर्षोऽपि काष्ठा । तदुक्तं सूतसंहितायाम्
'प्रतीतमप्रतीतं वा सदसच्च परः शिवः ।
इति वेदान्तवाक्यानां निष्ठा काठेति कथ्यते ॥ इति । 'सा काष्ठा सा परा गति रिति श्रुतिश्च । यद्वा गगनात्मकस्य भीमनामकस्य परशिवस्य पत्नी स्वर्गमाता देवी दिक्स्वरूपत्वात्काष्ठेत्युच्यते । तथा च लैङ्गे
'चराचराणां भूतानां सर्वेषामवकाशदः । व्योमात्मा भगवान्देवो भीम इत्युच्यते बुधैः ॥ महामहिम्नो देवस्य भीमस्य परमात्मनः ।
दशस्वरूपा दिक्पत्नी सुतः स्वर्गश्च सूरिभिः ॥ इति | वायुपुराणेऽपि
'नाम्ना षष्ठस्य या भीमा तनुराकाश उच्यते । दिशः पत्न्यः स्मृतास्तस्य स्वर्गस्तस्य सुतः स्मृतः ॥
कल्पना भ्रान्त्यनुभवः तया रहिता, सत्यानुभवरूपत्वात् । रहितायै इति ॥ अत एव काष्ठायोगिना परा गतिरूपा | काष्ठायै इति ॥ अकं पापं तस्य अन्तो यस्या: सा । अकान्तायै इति || कान्तः शिवः स अर्धविग्रह अर्धशरीरं यस्याः सा | विग्रहायै इति ॥ २११ ॥
For Private and Personal Use Only