SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् निषत्पदस्य रहस्यपरत्वेन व्याख्यानदर्शनात् । तस्य निरुक्तिरप्याचार्यैर्दर्शिता 'उपनीयेममात्मानं ब्रह्मापास्तद्वयं सतः । निहन्त्यविद्यां तज्जां च तस्मादुपनिषन्मता ॥' Acharya Shri Kailassagarsuri Gyanmandir इति । अत्रोत्कर्ष ऐकरूप्यम् । उच्चैस्त्वस्य धातुनैव लाभात् । 'उच्चैर्घुष्टं तु घोषणे ि कोशात्। ऐकरूप्यं च प्रतिवेदान्तं विहितानां सगुणब्रह्मोपास्तीनां भेदाभावः । तदिदं सर्ववेदान्तप्रत्ययं 'चोदनाद्यविशेषा' दित्यधिकरणे स्पष्टम् । आकाशनिष्ठा कला शान्त्यतीतेत्युच्यते । तत्स्वरूपं च शैवागमे - शान्त्यतीतकलाद्वैतनिर्वाणानन्दबोधत । तदात्मिका तदभिन्ना ॥ २१० ॥ गम्भीरा गगनान्तस्था गर्विता गानलोलुपा । इति । अन्यत्रापि– I आनन्त्याद्गम्भीरा । महाह्रदस्वरूपेत्यर्थः । तथा च शिवसूत्रम् - 'महाह्रदानुसन्धानान्मन्त्रवीर्यानुभव' इति । 'महाह्रद इति प्रोक्ता शक्तिर्भगवती परा । अनुसन्धानमित्युक्तं तत्तादात्म्यविमर्शनम् ॥ मन्त्रवीर्यमिति प्रोक्तं पूर्णाहन्ताविमर्शनम् । तदीयोऽनुभवस्तस्य स्फुरणं स्वात्मनः स्फुटम् ॥ बिन्नृत्यन्वमन्खादन्स्वैराचारपरः रः स्वयम् । 'परा भट्टारिका संविदिच्छाशक्तिपुरःसरम् । स्थूलप्रमेयपर्यन्तं वमन्ती विश्वमान्तरम् ॥ प्रमात्रन्तर्बहीरूपा हृषीकविषयात्मनाम् । प्रवर्तकत्वस्वच्छत्वगम्भीरत्वादिधर्मतः ॥ महाहदो जगद्व्यापी देशकालाद्यगोचरः ।' 279 इति । 'गं' इति गणपतिबीजम् । तेन गणपतिरेवोच्यते । तस्य भियं रात्यादत्ते निरस्यतीत्यर्थो वा । गगनस्य दहराकाशस्य भूताकाशस्य पराकाशस्य वान्तर्मध्ये तिष्ठतीति । 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येक' इति श्रुतेः । गगनस्यान्ते नाशकालेऽपि तिष्ठति वा । गगनं अकारः, अन्तस्था यरलवा इति पञ्चभूतबीजोद्धारः । गर्वो For Private and Personal Use Only समुद्र इवातिविततैकरसान्तरत्वाद् गम्भीरा । गम्भीरायै इति ॥ गगनस्य चिदाकाशस्यान्तःसारवत्तिष्ठतीति सा । अन्तस्थायै इति ॥ गर्यो विश्वात्मिता रूपोऽभिमानः सोऽस्यां सञ्जात इति । गर्वितायै इति ॥ गाने गान्धर्वे लोलुपा आसक्ता । लोपायै इति ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy