________________
Shri Mahavir Jain Aradhana Kendra
276
इति । विष्णुभागवतेऽपि -
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
'त्वमेव सर्वजगतामीश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं हरम् ॥'
Acharya Shri Kailassagarsuri Gyanmandir
इति । भवचक्रमनाहतचक्रं वा तत्र शिवस्यावस्थानात् । ननु कोणपत्रसमुच्चयस्यैव चक्रपदवाच्यत्वमिति तान्त्रिक सिद्धान्तादनाहते कोणाभावात्कथं चक्रपदेन तदुपस्थितिः । अत एव 'अनाहताब्जनिलयेत्येव प्रयोगः । केवलपत्रसमुदाये पद्मत्वं केवलकोणसमुदाये यन्त्रत्वमिति सिद्धान्तादितिचेन्न । कोणत्वाभिप्रायेण मूलाधारादिष्वपि चक्रव्यवहार इति वदद्भिर्विद्यारत्नभाष्यकारैरेवमेव समाहितत्वात् । पत्रेषु कोणत्वारोपाद्गौणव्यवहार इति तदाशय इति केचित् । तन्न | कोणत्वविवक्षायां यन्त्रत्वविवक्षाभावेन यन्त्रव्यवहारस्यैवापत्तेः । अतस्तत्कार्णिकोपरि त्रिकोणस्य सत्त्वादित्येव भाष्याशयं युक्तमुत्पश्यामः । बिन्दुचक्राष्टदलषोडशदलवृत्तत्रयभूगृहत्रयाणि श्रीचक्रान्तर्गतानि वा भवचक्राणि । भवस्य शिवस्य चक्रं मनः प्रवर्तयतीति वा । 'चक्रं हि मन एवेति विष्णुपुराणे
'चलत्स्वरूपमत्यन्तं जवेनान्तरितानिलम् । चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम् ॥' इति ॥ २०८ ॥ छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
छन्दः शब्दो वेदपरो गायत्र्यादिपरो वा पैङ्गलतन्त्रपरो वा । 'छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोरिति विश्वः । परो वादी । सारशब्दो न केवलं पुंलिङ्गः । 'संसारे किं सारम्', 'सा दशा वै तान्तवी त्यादिप्रयोगात् |
I
'सारो बले मज्जनि च स्थिरांशे न्याय्ये च नीरे च धने च सारम् | वेदेऽन्यवत्सारमुदाहरन्ति
इति च विश्वः । अत्र स्थिरांशशब्दो निष्कृष्टांशपरः अनिष्कृष्टस्यास्थिरत्वात् । ततश्च वेदे उपनिषद्भागेऽस्याः स्वरूपनिष्कर्षः । छन्दःसु सारो निष्कर्षो यस्या इति विग्रहः । गायत्र्यादिछन्दसु निष्कृष्टं रूपं गायत्रीमन्त्रस्तस्यापि निष्कर्षः पञ्चदशी । तदिदमुक्तं वरिवस्यारहस्येऽस्माभिः
'तज्ज्ञानार्थमुपाया विद्या लोके चतुर्दश प्रोक्ताः । तेष्वपि च सारभूता वेदास्तत्रापि गायत्री ॥ तस्या रूपद्वितयं तत्रैकं यत्प्रपठ्यते स्पष्टम् । वेदेषु चतुर्ष्वपि परमत्यन्तं गोपनीयतरम् ॥
छन्दसु वेदेषु सारो निष्कर्षो यस्याः सा । सारायै इति ॥ एवमेव शास्त्रेषु सारः यस्याः सा । सारायै इति || मन्त्रेष्वपि सारः यस्याः सा । सारायै इति ॥ तलं करतलं तदिव कृशं समं चोदरं यस्याः सा । उद इति ॥
For Private and Personal Use Only