SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 277 सौभाग्यभास्कर-बालातपासहितम् कामो योनिः कमलेत्येवं सङ्केतितैः शब्दैः। व्यवहरति न तु प्रकटं यां विद्यां वेदपुरुषोऽपि ।' आथर्वणेऽपि त्रैपुरसूक्ते षोडशर्चे 'कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वामिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमाता च विद्या ॥ इत्यस्यामृचि कादिविद्याया उद्धारः । पैङ्गलतन्त्रे हि 'द्विको ग्लौ । मिश्रौ च 'इति सूत्रद्वयेन महाप्रस्तार: प्रतिपादितः स चानवधिकस्यापि शब्दजालस्य निःशेषेण ज्ञानोपायः । स च छन्दोभास्कर एवास्माभिः प्रकटीकृतः छन्दःशास्त्रे | बलं माहात्म्यं यस्या वैखर्याः सरस्वत्या इत्यर्थः । यद्वा यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् । तत्र तत्र परानन्दस्वरूपं संप्रकाशते ॥ इति विज्ञानभैरवभट्टारकोक्तरीत्योपासकधौरेयम्य यत्रेच्छा स एव धर्मः । यत्र नेच्छा स एवाधर्मः । उक्तञ्च शाकुन्तले सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तय' इति । समयाचारस्मृत्युक्तो निर्बन्धोऽपि प्रौढोल्लासावधिक एव 'प्रौढान्तं समयाचारा' इति कल्पसूत्रात् । सर्वमेतदभिप्रेत्य कौलोपनिषदि श्रूयते-'धर्मोऽधर्मः अधर्मो धर्म' इति । योगिनीहृदयेऽपि 'पिबन्नृत्यन्वमन्खादन्स्वैराचारपरः स्वयम् । अहन्तेदन्तयोरैक्यं भावयन्विहरेत्सुखम् ॥ इत्युक्तरीत्येदृशमन:समाधिमतामिच्छाविषयोऽर्थो नियमेन धर्म एव भवतीत्येतदभिप्राया । स्मृतिष्वपि 'श्रुतिः स्मृतिः सदाचार आत्मनस्तुष्टिरेव चेति धर्मप्रमाणेषु मनःप्रवृत्तेर्गणनमीदृशसमाहितमनःपरमेव । अन्यथातिप्रसङ्गात् । ईदृशं स्वैराचरणं सारं न्याय्यं यस्या इत्यर्थः । अभिलाष इच्छा सारो निष्कृष्टरूपं यस्या इति वा । देव्या इच्छाशक्तिस्वरूपत्वात् । सारपदस्य श्रेष्ठपदत्वे तु विशेष्यनिघ्नत्वान्नास्त्येव स्त्रीलिङ्गत्वानुपपत्तिः । एवमुत्तरनामद्वयेऽपि 'शास्त्रयोनित्वादिति । सौत्राबीहिशास्त्र यवशास्त्रमित्यादि तान्त्रिकाच्च व्यवहाराच्छास्त्रशब्दो वेदपरस्तदनुसारिमीमांसादिपरो वा । तदुक्तं भामत्याम् 'प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ इति । मन्त्रशब्दोऽपि 'कास्प्रत्ययादाममन्त्रे लिटि' इत्यादिव्यवहारादिपरस्तान्त्रिकमनुपरस्तत्प्रतिपादकचतुःषष्टितन्त्रपरो वा । तलं करतलादि तद्वत्कृशं समं चोदरं न For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy