SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 275 'कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा। स्ववंशवादनारम्भादकरोद्विवशं जगत् ॥ ततः स गोपीसंज्ञाभिरावृतोऽभूत्स्वशक्तिभिः । तदा तेन विनोदाय स्वं षोढाऽकल्पयवपुः ॥ इत्यादि । रत्नविशेषादिरूपा वा । 'मुकुन्दः पुण्डरीकाक्षे रत्नभेदेऽपि पारद' इति विश्वः । मुक्तीनां पञ्चविधमोक्षाणां निलय आकरो यस्याम् । बालाबगलादिशक्तीनां मूलभूतो यो राजराजेश्वरीविग्रहः स एव रूपमस्याः । तथा च गौडपादीयानि दश सूत्राणि 'सैव विद्ये'त्यारभ्य 'स्वयमूर्ध्वाकारेणे त्यन्तानि एकस्या एव विद्याया: शाम्भवीविद्याश्यामाभेदेन त्रैविध्यं प्रतिपाद्य तास्वेकैकस्या अनेकशक्तिजनकत्वं विशिष्य प्रतिपादयन्ति । भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ २०८ ॥ भावाञ्जानातीति भावज्ञा । 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । 'भावो योनिबुधार्थेषु कृपालीलाविभूतिष्वि'त्यमरशेषः । 'तस्य भावस्त्वतला विति सूत्रे धर्मोऽपि भावः । 'भावप्रधानमाख्यात मिति स्मृतौ भावनापि भावः । 'धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते' । 'अस्ति जायते वर्धते' इत्यादयो यास्कपरिगणिता विकारा अपि षड्भावाः । भवो भक्तिर्भजनीयोऽस्य भावः । तार्किकसम्मताः षट्पदार्था अपि भावाः । भव: संसार: स एव भावः । तत्सम्बन्धिन: सांसारिका अपि भावाः । भव: शिवस्तस्येमे शैवा अपि भावाः । भवो भक्तिर्भजनीयोऽस्य भाव: 'भक्ति रिति पाणिनिसूत्रेणाण्वा । भा कान्तिस्तां वान्ति गच्छन्ति सूर्यादयोऽपि भावाः । भक्तिरपि भावः । योगिनीहृदये कथिते मन्त्रार्थषट्के प्राथमिकोऽर्थोऽपि भावः । भव: संसार एव रोगस्तं हन्ति 'नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वज मिति रामायणात् । 'व्याधीनां भेषजं यद्वत्प्रतिपक्षस्वभावतः। तद्वत्संसाररोगाणां प्रतिपक्षः शिवाधवः ॥ इति शिवपुराणाच्च । भवचक्रं संसारमण्डलं प्रवर्तयति, भवचक्रवत्प्रवर्तयतीति वा । तदुक्तं मनुस्मृतौ 'एषा सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ भावान् सर्वजनाशयान् जानातीति सा । भावज्ञायै इति ॥ भवः संसारः स एव दुःख प्रदत्वाद्रोगः तं हन्तीति सा । रोगघ्यै इति ॥ भवं संसारं चक्रवत्पुन:पुनः प्रवर्तयतीति सा । प्रवर्तिन्य इति ॥ २०८ ।। For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy