SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहित 'प्रकटीकृतम् । तद्व्याख्यायामप्यकारादिक्षकारान्तानामेकैकं वर्णमेकैकस्यादावुक्त्वा तत्तत्स्थानेषु पीठानां न्यासं कुर्यादित्युक्तम् । एतेनेदृशनामस्वारस्यात्पीठन्यासेऽपि क्षकारस्थानपरित्यागेन पञ्चाशत एवेति सुन्दरीमहोदयकाराणां लेखः साहसमात्रत्वान्नादर्तव्यः । नह्यस्य नाम्नो विधिरूपत्वं येन पीठन्यास एकस्य पीठस्य परिसंख्या स्यात् । न च ज्ञानार्णवे - ..पञ्चाशत्पीठसञ्चयात् । पञ्चाशत्पीठविन्यासं मातृकावत्स्थले न्यसेत् ॥' Acharya Shri Kailassagarsuri Gyanmandir इत्युपक्रमोपसंहाराभ्यां तथा निर्णय इति वाच्यम् 1 पञ्चाशत्पदस्यैकपञ्चाशत्परताया उक्तत्वात् । अन्यथा तत्रैवैकपञ्चाशतो गणनानुपपत्तिः । अत एव 'कालेश्वरं महापीठं प्रणवं च जयन्तिकेति पाठस्य काल्पनिकत्वमुक्त्वा 'महापीठं जयन्तिकेति पाठस्यैव प्रामाणिकत्वोक्तिरपि साहसमेव । ॐकारं च जयन्तिके'ति योगिनीहृदयेन संवादात्प्रणवपाठस्यैव प्रमाणत्वात् । वस्तुतस्तु 'शैलो मेरुस्ततो गिरिरिति ब्रह्माण्डपुराणे गिरिपदस्य मेरुतः पार्थक्येन गणनमास्थेयम् | 'पीठानि पञ्चाशदेकं चेति स्पष्टोपक्रमस्य प्रकारान्तरेणानुपपत्तेः, ततः पदेन व्यवधानाच्च । ततश्च 'जलेशं मलयं शैलं मेरुं गिरिवरं तथेति योगिनीहृदये, 'मलयं च महापीठ श्रीशैलो मेरुको गिरिरिति ज्ञानार्णवेऽपि तत्संवादाद्भिन्नपदस्वारस्यान्मेरुपर्वत इत्यनुक्तिस्वारस्याच्च तथैवास्थेयम् । आस्थितं च तथैव सुभगार्चा-रत्नसुभगार्चा-पारिजातादिपद्धतिषु । प्रसिद्धं च प्राच्येषु गिरिनाथाख्यं पीठम् । एतेन ज्ञानार्णव एकैकपञ्चाशद्गणेशन्यासान्ते एतांस्तु विन्यसेवि मातृकान्यासवत्प्रिये' इतिवत्, कामरतिन्यासान्ते 'मातृकार्णैर्न्यसेद्देवि मातृकावत्सदानघे' इतिवच्च पीठन्यासान्तेऽपि 'मातृकावत्सदा न्यसेदित्युक्तेरैकरूप्यं सङ्गच्छते । बहिर्मातृकान्यासे विशिष्यैकपञ्चाशतामुक्तत्वेन तत्साम्येनात्रापि तथैव सिद्धेः तन्त्रान्तरैवाक्यतायाः सम्भवन्त्यास्त्यागायोगाच्चेति । प्रकृते एकपञ्चाशत्पदमपेक्षितमेवेति यद्याग्रहस्तदा रूपपदमेकसंख्यापरत्वेन व्याख्यायताम् । रूपे शून्यमिति पिङ्गलसूत्रे हलायुधादीनां तथा व्याख्यानदर्शनादिति दिक् । विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ २०७ ॥ शृङ्खला कर्मादिनिर्बन्धः निगडवद्बन्धसाधनत्वात् । अतएवोक्तमभियुक्तै:'पातकप्रचयवन्मम तावत्पुण्यपुञ्जमपि नाथ लुमीहि । काञ्चनी भवतु लोहमयी वा शृङ्खला यदि पदोर्न विशेषः ॥ शृङ्खलाबन्धकत्वेन निगडतुल्यत्वात्कर्मादिबन्धः । सा विगता यस्याः सा । विशृङ्खलायै इति ॥ विविक्ते पवित्रैकान्तदेशे तिष्ठतीति सा । विविक्तस्थायै इति ॥ वीरा अन्तर्मुखा जनास्तेषां रक्षणकर्त्री इति माता । मात्रे इति ॥ वियत आकाशस्य प्रसूर्जननी । प्रसुवे इति ॥ २०७ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy