SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 ललितासहस्रनामस्तोत्रम् प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी । प्राणानामिन्द्रियाणामधिष्ठातृत्वादीश्वरी । 'ज्योतिराद्यधिष्ठानं तु तदामनना'दित्यधिकरणे तदधिष्ठातृदेवतासद्भावस्य स्थापितत्वात् । प्राणस्य पञ्चवृत्तिकस्याधिपतिर्वा । 'प्राणस्य प्राण' इति श्रुतेः । प्रकृष्टोऽणः शब्दो वेदरूपस्तदीश्वरी तत्प्रतिपाद्यदेवता । 'सर्वे वेदा यत्पदमानन्तीति श्रुतेः । प्राणानां दात्री सर्वजगज्जीवयित्री एकादशेन्द्रियाणां दात्री वा । 'प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तीति श्रुतौ प्राणा इति पदस्येन्द्रियपरत्वेन तथा व्याख्यानदर्शनात् । 'सप्तगतेर्विशेषितत्वाच्चेति । द्वैतीयीकाधिकरणे तथा निर्णयाच्च । पञ्चाशच्छब्दोऽयं प्रकृते लक्षणयैकपञ्चाशत्परः । सान्निध्यरूपशक्यसम्बन्धात् । अत एव 'नित्यानन्दवपुर्निरन्तरगलट्पञ्चाशदर्णैः क्रमादिति शारदातिलकश्लोके पञ्चाशत्पदमेकपञ्चाशत्परतयैव व्याख्यातं हर्षदीक्षितैः । प्रायेण दशविंशत्यादिदशकशब्दानां शतसहस्रादिशब्दानां चैकद्वित्रिन्यूनाधिकभावे बहुत्वमात्रविवक्षया च लोके प्रयोगः प्रचुरं दृश्यते । अथवा सहने शतमितिन्यायेनावयुत्याप्यनुवादो नवावतारे दशावतारा इति जगत्पतावयोध्याधिपतिरिति च व्यवहारस्य कञ्चनावान्तरोपाधिमादाय दर्शनात् । किंबहुना द्वात्रिंशच्छब्दोऽपि पञ्चत्रिंशद्व्यञ्जनेषु सूतसंहितायां प्रयुक्तः पूर्वं दर्शित: । तदिह पञ्चाशत एव मातृकाणामन्तर्मातृकान्यासे विनियोगाल्लळयोरभेदाद्वा क्षकारस्य पार्थक्याभावाद्वाऽक्षमालायां तस्य मेरावेव निवेशनेन मणीनां पञ्चाशत्त्वाद्वा पञ्चाशन्मातृकेति व्यवहारेऽप्येकपञ्चाशत्परतैव तस्य वक्तव्या । अत एव बहिर्मातृकान्यासप्रकरणेऽपि 'पञ्चाशल्लिपिभिर्विभक्तमुखदोर्यन्मध्यवक्षस्थलं', 'पञ्चाशद्वर्णभेदैर्विहितवदनदो पादयुक्कुक्षिवक्ष' इत्यादयः कवीनां प्रयोगाः । एकपञ्चाशतो न्यासमुक्त्वा तदन्ते 'पञ्चाशद्वर्णरूपेयं कन्दर्पशशिभूषणे त्यांदयो ज्ञानार्णवादितन्त्रप्रयोगाश्चोपपद्यन्ते । मातृकासमानयोगक्षेमत्वादेव 'श्रीकण्ठाद्याश्च पञ्चाशत्पञ्चाशत्केशवादय' इत्यादयोऽपि तन्त्रसारसंग्रहादौ प्रयोगा एकपञ्चाशत्परा एव । तेन कामरूपादिच्छायाछत्रान्तैकपञ्चाशत्पीठानि रूपमस्या इत्यर्थः । अतएव षोढान्यासान्तर्गते पीठन्यासे एकपञ्चाशत्पीठानां न्यासः । उक्तञ्च ब्रह्माण्डपुराणे स्पष्टतरम्'ततः पीठानि पञ्चाशदेकं चक्रमतो न्यसे दित्यारभ्य 'लिपिक्रमसमायुक्तान् लिपिस्थानेषु विन्यसे दित्यन्तम् । योगिनीहृदयेऽपि-'पीठानि विन्यसेद्देवि मातृकास्थानके प्रिये' इत्यारभ्य 'एते पीठाः समुद्दिष्टा मातृकारूपकास्थिता' इत्यनेन मातृकास्थानोक्त्यैकपञ्चाशत्त्वमेव प्राणानां इन्द्रियाणामीश्वरी अधिष्ठात्री । ईश्वर्यै इति ॥ प्राणानां दात्री सर्वजगज्जीवयित्री । दात्र्यै इति ॥ पञ्चाशदित्येकपञ्चाशत्परम्, कामरूपादिछायाछत्रान्तैकपञ्चाशतां पीठानां रूपमस्याः सा । रूपिण्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy