SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् 'न यस्य कोपोऽणुरपि प्रजास्तस्य न बिभ्यति । सैतां नीतिं कथं रक्षेत्प्रजा यस्य न बिभ्यति ॥ 'चण्डा धनहरी शङ्खपुष्पी चण्डोऽतिकोपने । प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनी ॥ इति कामन्दकश्च । भयप्रदत्वलिङ्गादेव हि 'महद्भयं वज्रमुद्यतमिति श्रुतौ वज्रपदं ब्रह्मपरमित्युक्तं कम्पनाधिकरणे । प्रकृष्टा प्रीतिविषयत्वेन चण्डा शङ्खपुष्पी यस्या इति वा । प्रतापशीलेति वा । न ह्येषा प्रकृतिर्जीवो विकृतिर्वा विचारतः । पुरा ममाज्ञा मद्वक्त्रात्समुत्पन्ना सनातनी ॥ पञ्चवक्त्रा महाभागा जगतामभयप्रदा ॥ Acharya Shri Kailassagarsuri Gyanmandir इति विश्वः | आज्ञा | वेदे प्रवर्तनानिवर्तनापरपर्यायभगवदिच्छारूपा । अत एव लैङ्गे शिववचनम् - 'शिवरागानुरक्तात्मा स्थाप्यते पौरुषे यया । सा प्रतिष्ठा कला ज्ञेया.. " 271 इति । शिवपुराणेऽपि 'रुद्राक्षैषा स्थिता देवी ह्यनया मुक्तिरम्बयेति ज्ञेत्येकाक्षरमपि सुवचनम् । गुणभोक्तृपुरुषस्वरूपेत्यर्थः । कथयन्ति ज्ञशब्देन पुरुषं गुणभोगिन मिति लैङ्गात् । ज्ञो विरिञ्चौ बुधे सौम्य इति कोशाधविधिस्वरूपा वा । 'ज्ञः कालकालो गुणी सर्वविद्य' इति श्रुतिरपि । सर्वजगतोऽधिष्ठानत्वात्प्रतितिष्ठत्यस्यां विश्वमिति प्रतिष्ठा । 'विश्वस्य जगतः प्रतिष्ठेति श्रुतेः । उक्तञ्च ब्रह्मगीतायाम् प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा परमेश्वरी'ति । षोडशाक्षरं छन्दोऽपि प्रतिष्ठा । जलतत्त्वनिष्ठकलाविशेषोऽपि प्रतिष्ठा । तल्लक्षणं च शैवागमे 'तमहं प्रत्ययव्याजात्सर्वे जानन्ति जन्तवः । तथापि शिवरूपेण न विजानन्ति मायया ॥' इति । 'प्रतिष्ठास्थानमात्रके । गौरवे यागनिष्पत्तिचतुरक्षरपद्ययो' रिति विश्वः । अत्र पद्यशब्दः पादपरो व्याख्येय इति निर्णीतं छन्दोभास्करेऽस्माभिः । प्रकटा सर्वैरनुभूयमाना आकृतिः रूपं यस्याः । तदुक्तं सूतसंहितायाम् For Private and Personal Use Only इति । प्रकटाख्या योगिन्यः प्रथमावरणगतास्तद्रूपा वा । अप्रकटेति वा छेदः । रहस्यरूपेत्यर्थः । अप्सु प्रकटेति वा । 'अपामेका महिमानं बिभर्ति', 'आपो वा इदं सर्व' मित्यादिश्रुतेः ॥ २०६॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy