________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
268
ललितासहस्रनामस्तोत्रम् 'एषोऽन्तर्याम्येष योनिः सर्वस्येति माण्डूक्यश्रुतेश्च । सर्वा च सान्तर्यामिणी चेति वा । सर्वस्वरूपा सर्वेषामनन्तश्च प्रविष्टेत्यर्थः । तत्सृष्ट्वा तदेवानुप्राविशत्तदनुप्रविश्य सच्च त्यच्चाभवदिति श्रुतेः । स्मृतिश्च
'सर्वस्य सर्वदा ज्ञानात्सर्वस्य प्रभवाप्ययौ ।
सतोऽसतश्च कुरुते तेन सर्वेति कथ्यते ॥' इति । पातिव्रत्यात्सद्रूपत्वाच्च सती । दाक्षायण्या इदं नाम । तदुक्तं ब्रह्मपुराणे हैमवतीं प्रकृत्य
'सा तु देवी सती पूर्वमासीत्पश्चादुमाभवत् । सहव्रता भवस्यैव नैतया मुच्यते भवः ॥ इति ॥ २०५ ॥
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता । ब्रह्मरूपा अणी पुच्छम् । अणीमाण्डव्य इति संज्ञायाः शूलाग्रचिह्नितत्वमात्रेण माण्डव्यमुनौ प्रवृत्तेः । 'अणिरक्षाग्रकीले स्यादणिः पुच्छेऽग्निसीमयो'रिति शाश्वतः । आनन्दमयकोशस्थपुच्छब्रह्मरूपेत्यर्थः । ब्रह्मण आणीस्थ' इति श्रुतिश्च । ब्रह्माणमानयति जीवयतीति वा । 'ब्रह्माणी ब्रह्मजननाद् ब्रह्मणो जीवनेन वेति देवीपुराणात् । ब्रह्माणशब्दः पितामहपरस्तस्य स्त्री वा । ब्रह्म यन्मुक्तप्राप्यं तत् स्वात्मभिन्नं ज्ञानम् । तदुक्तं विष्णुपुराणे
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ इति । सर्वप्रपञ्चस्योत्पादकत्वाज्जननी । अत्र वकारादिनामप्रायपाठस्वारस्यानुरोधादुक्तदेवीपुराणैकवाक्यत्वलिप्सया ब्रह्माणीपदनिर्वचनपरत्वेन ब्रह्मजननीत्येकं पदं स्वीकर्तुं युक्तम् । एतत्पक्षे सर्वान्तर्यामिणीत्यत्र सर्वेति भिन्नं पदमास्थेयम् । न चान्तर्यामिणीत्यस्य सकारादिनामप्रायपाठस्य सन्दर्भविरोधापत्तिः । अन्तर्यामिपदमात्रेणाविशेषात्सर्वान्तर्यामित्वे सिद्धे एकपदपक्षे सर्वपदवैयपित्त्या प्रायपाठविरोधेनापि तत्सार्थक्यवर्णनस्योचितत्वात् । 'विश्वमाता जगद्धात्री विशालाक्षी विरागिणी त्यादिदर्शनेन तत्प्रायमध्ये तदाद्येव नाम छेत्तव्यमिति नियमस्यानित्यत्वाच्च । प्रपञ्चजनयितृत्वादेवाह-बहुरूपेति । बहूनि रूपाणि यस्याः । तदुक्तं देवीपुराणे-'अरूपापरभावत्वाद्बहुरूपा क्रियात्मिकेति । परब्रह्मभावनारूपाया अपि भण्डासुरहननादिबहुविधक्रिया
ब्रह्मणः परशिवस्य स्त्री ब्रह्माणी । ब्रह्माण्यै इति ॥ ब्रह्ममुंक्तप्राप्यरूपा । ब्रह्मणे इति ॥ जननी जगन्माता । जनन्यै इति ॥ बहूनि रूपाणि यस्याः सा । रूपायै इति ॥ बुधै विद्वद्भिरर्चिता । अर्चितायै इति ॥
For Private and Personal Use Only