SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 262 ललितासहस्रनामस्तोत्रम् . शरीरमिति शिवसूत्रे कलाशब्दः कर्मपरत्वेन तद्भाष्ये व्याख्यातः । तेन कर्माणि निधीयन्तेऽस्यामिति वा । अधिकरणे क्वि: । 'सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यत' इति स्मृतेः । कवेः कर्म काव्यम् । तच्च नाटकशाटकभाणडिमंप्रहसनादिभेदादनेकविधमग्निपुराणादौ प्रदर्शितं तादृशकलाप्यम्बाया एव रूपम् । उक्तञ्च विष्णुपुराणे'काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च । शब्दमूर्तिधरस्यैतद् वपुर्विष्णोर्महात्मनः ॥' Acharya Shri Kailassagarsuri Gyanmandir इति । काव्योत्पादकप्रतिभैव वा काव्यकला । ध्यानविशेषेण काव्यनिर्माणसामर्थ्यप्रदत्वस्य तन्त्रेषु बहुशो वर्णनात् । काव्यस्य शुक्रस्य मृतसञ्जीवन्याख्यकलारूपा वा । रसान् शृङ्गारादिभेदेन दशविधान् जानातीति रसज्ञा । रसनेन्द्रियस्वरूपा वा । रसस्य ब्रह्मामृतस्य शेवधिर्निधिः । 'रसो वै स: । रसं ह्येवायं लब्ध्वानन्दी भवतीति श्रुतेः । ब्रह्माण्डेऽपि 'रस एव परं ब्रह्म रस एव परा गतिः । रसो हि कान्तिदः पुंसां रसो रेत इति स्मृतः ।' 'रसो वै रससंलब्ध्या ह्यानन्दी भवतीत्यपि । वेदप्रामाण्यसंसिद्ध्या रसः प्राणतया स्थितः ॥' को ह्येवान्याच्च कः प्राण्यादित्यपि श्रुतिभाषितः । प्राणात्मको रसः प्रोक्तः प्राणदः कुम्भसम्भव ॥' इति । 'निधिः शेवधिरिती'ति यास्क: । 'निधिर्ना शेवधिरिति कोशात्पुंलिङ्गौ निधिशेवधिशब्दौ । तेन कलानिधये नमः । रसशेवधये नम इत्येव प्रयोगो न पाक्षिको निध्यै शेवध्यै नम इति । कलानां रसनां च निधि: शेवधिर्यस्या इति विग्रहे सोऽपि सम्भाव्यते । तु इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । शतकेनाष्टमेनाभूद्विश्वाख्या नवमी कला ॥ ८०० ॥ इति श्रीललितासहस्रनामभाष्येऽष्टमशतकं नाम नवमीकला ॥ ९ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy