SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 261 इति । 'भोक्तभोग्यकरणोर्मिसंक्षये सामरस्यरसदोहिनी शिवेत्यादिकालिदासोक्तिश्च । 'समप्रधानौ समसत्त्वौ समो तयो रिति श्रुतिश्च । अमरैः सहितस्य सामरस्य लोकस्य परायणमाश्रयो वा । रस्यन्ते गीयन्त इति रस्यानि सामानि च तानि रस्यानि च तानि परायणानि अ भीष्टानि यस्या वा । बहुलग्रहणान्न विशेषणस्य पूर्वनिपातः । 'परायणमभीष्टं स्यात्तत्पराश्रययोरपीति विश्वः । कपर्द इत्यधिकृत्य 'भूमनिन्दाप्रशंसासु नित्ययोगेतिशायन' इति सूतसंहिताटीकाकारैलिखितात्स्मरणाबाहुल्यप्रशंसादिमती । वराटकमालाभूषिता वा । मैरालावतारस्य शिवस्याङ्गना महालसानाम्नी वराटकालङ्कारैव 'पर्व पूर्ताविति धातोर्भावे क्विपि राल्लोपे च परशब्द: पूर्तिवाची । अन्तर्भावितण्यर्थात्कर्तरि वा विपि पूरवाची । कस्य गङ्गाजलस्य पूरं प्रवाहं दापयति शोधयतीति कपर्दः । दैप् शोधन' इति धातोः सुप्युपपदे 'आतो धातोः, सुपि स्थ'इति योगविभागात्कः । कपर्दिनी कलामाला कामधुक्कामरूपिणी ॥ २०२॥ गङ्गाया अपि पाविका यज्जटा इत्यर्थः । 'कपर्दः खण्डपरशोर्जटाजूटे वराटके' इति विश्वः । 'आर्भट्या शशिखण्डमण्डितजटाजूटा मिति लघुस्तवोक्तरूपवती वा । कपर्दिनामकस्य शिवस्य पत्नी वा । देवीपुराणेऽष्टषष्टिशिवक्षेत्रगणनावसरे छगलाण्डे कपर्दिनमिति स्मरणात् । कलानां चतुःषष्ट्यादिरूपाणां माला परम्परा । कलां लावण्यं मां शोभां च लातीति वा । कामान् दोग्धीति कामधुक् । मनोरथान् पूरयतीत्यर्थः । कामधेनुस्वरूपा वा । 'सा नो मन्द्रेषमूर्ज दुहाना धेनुर्वागस्मानुपसुष्टुतैत्विति श्रुतेः । कामः परशिव एव रूपमस्याः । 'सोऽकामयत बहुस्या प्रजायेय' इति श्रुतिसिद्धजगत्सिसृक्षावानीश्वरः कामेश्वरः तमधिकृत्य काण्वा अधीयते 'य एवायं काममयः पुरुषः स एव दैवशाकल्यस्तस्य का देवतेति स्त्रिय इति होवाचेति । कामं यथेच्छं वा रूपाण्यस्याः ॥ २०२ ॥ कलानिधिः काव्यकला रसज्ञा रसशेवधिः। कलानां नानाविधतया पूर्वं वर्णितानां निधिः 'आत्मैवास्य षोडशी कलेति बृहदारण्यकोक्तेरात्मनां जीवानां निधिर्वा । चन्द्रमण्डलरूपा वा । 'योनिवर्गः कला ___ कपर्दिनः शिवस्य स्त्री कपर्दिनी । कपर्दिन्यै इति ॥ कलानां चतुषष्टिसंख्यानां माला परम्परा यस्याः सा । मालायै इति ॥ भक्तानां काम[]नभीष्टान् दोग्धीति सा | दुहे इति ॥ कामः कामेश्वरः स एव रूपं स्वरूपमस्याः । रूपिण्यै इति ॥ २०२ ॥ कलानां पूर्वोक्तानां निधिः शेवधिः । निधये इति ॥ काव्यात्मककलारूपा । कलायै इति ॥ रसान् शृङ्गारादीन् जानातीति सा | ज्ञायै इति ॥ रसानां शेवधिः शेवधये इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy