________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमशतकं नाम दशमी बोधिनी कला
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ २०३ ॥ षट्त्रिंशत्तत्त्वविग्रहशीलत्वात्पुष्टा । बहुभिर्गुणैर्ब्रह्मरसेन ब्राह्मणैर्वा पुष्टा । 'ब्राह्मणैः पोषितं ब्रह्मेति स्मृतेः । 'ब्रह्मायुष्मतद्ब्राह्मणैरायुष्मदिति श्रुतेश्च । सर्वेषामादिभूतत्वात्पुरातना डीबभावश्छान्दसः । पुरातना गुणा अस्यां सन्तीत्यर्थे मत्वर्थीयाच्प्रत्ययान्ताद्वा टाप् अत एव सर्वेषां पूज्या पूजयितुं योग्या । प्रतीक्ष्या वा । पुष्कं पोषणं रात्यादत्तेऽसौ पुष्करा । पुष्कराख्यतीर्थरूपा वा । रलयोरभेदाव्याप्तेति वा । पुष्कराणीव कमलानीवेक्षणानि नयनानि यस्याः।
'पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः । ओषधीद्वीपविहगतीर्थरागोरगान्तरे ॥
पुष्कर तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च । इति विश्वः। एवं पुष्कराख्यो योगोऽपि पाये प्रसिद्धः
'विशाखास्थो यदा भानुः कृत्तिकासु च चन्द्रमाः।
संयोगः पुष्करो नाम पुष्करेष्वतिदुर्लभः ॥ इति । पुष्करशब्दः पृथिवीपरोऽपि । तदुक्तं पद्मपुराण एव
'या पद्मकर्णिका देवास्तां पृथ्वी परिचक्षते । ये पो सारगुरवस्तान् दिव्यान्पर्वतानिह ॥ यानि पर्णानि पद्मस्य म्लेच्छदेशास्तु तेऽभवन् । यान्यधोभागपत्राणि ते सर्पाणां सुरद्विषाम् ॥ एवं नारायणस्यार्थे मही पुष्करसम्भवा ।
प्रादुर्भावोच्छ्रयस्तस्मान्नाम्ना पुष्करसंज्ञिता ॥ इति । तेन यथासम्भवं मह्यादिविषये क्षण उत्सवो निर्व्यापारस्थितिर्वा यस्या इति वार्थः । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षण' इत्यमरः । सप्तम्या अलुक् । पुष्करशब्दो न्यग्रोधवृक्षपरोऽपि दृश्यते । पुष्करद्वीपपदस्य तद्वत्त्वेन मत्स्यपुराणे निर्वचनदर्शनात्-'न्यग्रोधः पुष्करद्वीपे पुष्करस्तेन सः स्मृत' इति । विष्णुपुराणेऽपि-'न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तम मिति । 'स प्रजापतिरेकः पुष्करपणे समभवदिति श्रुतिरपि । ___पुष्टा पुष्टिमती सर्वात्मकत्वात् । पुष्टायै इति ॥ सर्वजगतामादिभूतत्वात् पुरातना । पुरातनायै इति ॥ सर्वेषां पूजनयोग्या । पूज्यायै इति ॥ पुष्कराख्यतीर्थरूपा । पुष्करायै इति ॥ पुष्कराणीव कमलानीव ईक्षणानि नेत्राणि यस्याः सा । ईक्षणायै इति ॥ २०३ ॥
For Private and Personal Use Only