________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
259
सौभाग्यभास्कर-बालातपासहितम् ज्योतिषं चापरा विद्या पराक्षरमिति स्थितम्।
तददृश्यं तदग्राह्यमगोत्रं तदवर्णकम् ॥ इत्यादि । 'असंवृतं तदात्मैव परा विद्या न चान्यथेत्यन्तम् । परोऽपरश्चेति प्रणवो द्विविधः । तदुक्तं स्कान्दे यज्ञवैभवखण्डे
'परापरविभागेन प्रणवो द्विविधो मतः। परः परतरं ब्रह्म प्रज्ञानन्दादिलक्षणम् ॥ प्रकर्षेण नवं यस्मात्परं ब्रह्म स्वभावतः । अपरः प्रणवः साक्षाच्छब्दरूपः सुनिर्मलः ॥ प्रकर्षण नवत्वस्य हेतुत्वात्प्रणवः स्मृतः।
परमप्रणवप्राप्तिहेतुत्वात् प्रणवोऽथवा ॥ इति । परोऽपरश्चेति द्विविधो वेदार्थः । तदुक्तं तत्रैव
'परापरविभागेन वेदार्थो द्विविधः स्मृतः। वेदार्थस्तु परः साक्षात्परात्परतरं परम् ॥
अपरो धर्मसंज्ञः स्यात्तत्परप्राप्तिसाधनम् । इति । योगशास्त्रे परमपरं परापरं चेति त्रिविधं ज्ञानमुक्तम्
'ज्ञानं तत्रिविधं ज्ञेयं परापरविभेदतः । तत्राद्यं परमं ज्ञानं पशुपाशात्मदर्शनम् ॥ द्वितीयं परमं ज्ञानं केवलं पाशदर्शनम् । यथा दृष्ट्यन्तरं रात्रौ नरमार्जारनेत्रयोः ॥
तथा विलक्षणं ज्ञानं परापरमुदीरितम् ।' इति । पराऽपरा परापरा चेति पूजा त्रिविधा । तदुक्तं नित्याहृदये
'तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता। परा चाप्यपरा गौरी तृतीया च परापरा ॥ प्रथमाद्वैतभावस्था सर्वप्रचरगोचरा। द्वितीया चक्रपूजा च सदा निष्पाद्यते मया ॥
एवं ज्ञानमयी देवी तृतीया स्वप्रथामयी।' इति । परापरा चेति वाक् द्विविधा । अपरा तु पश्यन्त्यादिभेदात्त्रिविधा । परापरा चेति अवस्था द्विविधा । तत्र परा तुर्या । अपरा तु जाग्रदादिभेदात्त्रिविधा । तदुक्तं विज्ञानभैरवभट्टारकैः -
'यत्र यत्र मनो याति बाह्ये वाभ्यन्तरे प्रिये । तत्र तत्र परावस्था व्यापकत्वात्प्रसिध्यति ॥
For Private and Personal Use Only