SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् वर्णात्मकद्रव्येषु स्वीकारादनुत्पन्नस्यानभिव्यक्तस्य वा कीर्तनजनकत्वायोगान्नामाभिव्यञ्जककीर्तनेनेष्टं भावयेदित्येवार्थः । कीर्तनं चेह वाचिकमानसोभयसाधारणम् । नामपठनवन्नामस्मरणस्यापि वचनान्तरेषु फलश्रवणात् । तस्मादिति हेत्वधिकरणन्यायेनार्थवादः । अनिशं यावज्जीवम् । तेनाग्निहोत्रवन्नित्यकाम्योभयरूपमिदं कर्मेति सिध्यति ॥ २० ॥ Acharya Shri Kailassagarsuri Gyanmandir बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् । तुलसीपत्रैरेभिर्नामसहस्रकैः ॥ २१ ॥ 'तुलसीबिल्वपत्राणि धात्रीपत्राणी पार्वति । अर्चने चक्रराजस्य नोचितान्येव सर्वथा ॥ पर्वा अथ कीर्तनस्यान्याश्रयेणापि फलसम्बन्धमाह - बिल्वपत्रैरिति सार्धेन | वचनान्तरेण प्राप्तमन्तर्यागबहिर्यागभेदेन द्विविधमपि पूजनं बिल्वपत्राद्यन्यतमकरणकं चक्रराजाधिकरणकमर्चयेदित्येकेन पदेन यच्छब्दयोगादनूद्यते । तत्र तात्पर्यग्राहकाणि पदान्तराणीति य इष्ट्येत्यादिवाक्य इव नोद्देश्यानेकत्वप्रयुक्तो वाक्यभेदः । नामसहस्रकैरिति तु कीर्त्यमानाभिप्रायं कीर्तनपर्यवसायि । तेनार्चनविशेषाश्रितेन नामकीर्तनेन, यद्यपि रुद्रयामले इति निषेधः प्रतीयते तथापि सहस्रनामकरणकार्चने विशिष्य बिल्वपत्राणां विधानान्निषेधस्तदितकरणकार्चनपरो व्यवतिष्ठते ॥ २१ ॥ सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी । चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२ ॥ 13 सद्यः प्रसादं भावयेदित्यर्थः । अथ यावज्जीववाक्येन प्राप्तं जीवनावच्छिन्नं कालसामान्यं विशेषेणोपसंहरति - चक्राधिराजमिति । अर्चनोत्तरं यः क्रियमाणो नित्यजपस्तदुत्तरकाले नित्यं सकृत्कीर्तयेदित्यर्थः । 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेतिवदयं कालार्थः संयोगः । अर्चनजपकीर्तनानां प्रत्येकं विधिभिः फले विनियोगेन कृतार्थत्वात् । अतएव जपपूजादेः कालोपलक्षणार्थत्वात् 'अनपायो हि कालस्य लक्षणं हि पुरोडाशाविति न्यायेन तदभावेऽपि कर्तव्यतां प्राप्तामनुवदति --- जपेति । आदिना न्यासादिपरिग्रहः ॥ २२ ॥ जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् । जपपूजाद्यशक्तोऽपि पठेन्नामसहस्रकम् ॥ २३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy