________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
255
सौभाग्यभास्कर-बालातपासहितम् नाकाशः परायणमिति छान्दोग्ये आकाशपदेन परब्रह्मैवोच्यते न भूताकाश ति 'आकाशस्तल्लिङ्गादिति ब्रह्मसूत्रे निर्णयातू । कौर्मेऽपि- 'यस्य सा परमा देवी शक्तिराकाशसंस्थितेति ।
'इत्थं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च ।
माहेश्वरी शक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ इति च । अथवा 'परमे व्योमन् प्रतिष्ठितेत्यादिश्रुतिसिद्धं व्योम ब्रह्माण्डपिण्डाण्डभेदेन द्विविधमपि पराकाशो ब्रह्माभिव्यक्तिस्थानं तद्रूपा । उक्तञ्च चिद्गगनचन्द्रिकायाम्
'हृक्रियात्मशशिभानुमध्यगः खे चरत्यनलदृष्टिधाम यः।
यत्तदूर्ध्वशिखरं परं नभस्तत्र दर्शय शिवं त्वमम्बिके ।' इति । स्वच्छन्दसंग्रहेऽपि
'द्वादशान्तं ललाटोवं कपालोर्ध्वावसानकम् ।
व्यङ्गुलोल शिरोदेशात्परं व्योम प्रकीर्तितम् ॥ इति । यद्वा । सप्तभ्य: समुद्रेभ्यः परतर आकाश: पराकाशः । तत्र ललिता षोडशे वर्षेऽवस्थितासती तद्रूपेत्युपचर्यते । तदुक्तं कादिमते
'कृतादिवर्षादारभ्य प्रतिवर्षमिति स्थिता । द्वितीयादिषु वर्षेषु क्रमात्ताः परिवृत्तिभिः॥ षोडशेऽब्दे परे व्योम्नि ललिता सलिलाम्बुधौ ।
चित्रा च भवतीत्थं हि भजन्ते परिवर्तनम् ॥ इति । मेरुपर्वत: सप्तद्वीपा: सप्तसमुद्राः पराकाशश्चेति षोडशसु स्थानेषु कृतयुगस्य प्रथमवर्षे ललिता कामेश्वरी भगमालिनीत्यादिक्रमेण चित्रान्ताः षोडश नित्यास्तिष्ठन्ति । द्वितीये तु वर्षे ललिता जम्बुद्वीपेऽवतरति । कामेश्वरी तु क्षाराम्बुधिं प्रयाति । तत्रत्या भगमालिनी तु ततोप्युत्तरं स्थानमाक्रमते । एवंरीत्या पराकाशे ज्वालामालिनी मेरौ चित्रा तिष्ठति । तृतीये वर्षे क्षाराम्बुधौ ललितेत्यादिक्रमेणोत्तरोत्तरस्थानाक्रमेण जम्बुद्वीपे चित्रा तिष्ठतीत्यायुह्यमिति तदर्थः । यद्वा पराकशब्द: कृच्छ्रविशेषवाचक: संस्तपोमात्रोपलक्षकः तस्य आशा दिक् । तपोगम्यो मार्ग इति यावत् । अथवा पराकमश्नाति । पराकादिजन्यफलभोक्त्रीत्यर्थः । परे उत्कृष्टे अके पापदुःखे अश्नाति नाशयतीति वा । 'अकं पापे च दुःखे चेति विश्वः । उपमार्थकप्रतीकाशप्रतिस्पर्धिपराकाशशब्दादनुपमेति वार्थः । प्राणान्पञ्चवृत्तिकानकादशेन्द्रियाणि वादत्ते । प्राणान्द्यति खण्डयतीति वा । 'प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्वेति कौषीतकिब्राह्मणे प्राणपदस्य ब्रह्मपरतेति निर्णीतं प्राणाधिकरणे ।
For Private and Personal Use Only