SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 ललितासहस्रनामस्तोत्रम् स्वीकृत्य धराधरसुतेत्येकं पदमित्यपि सुवचम् । तत्र अजपा मन्त्रविशेषरूपा । तन्निर्वचनं च दक्षिणामूर्तिसंहितायाम् 'विना जपेन देवेशि जपो भवति मन्त्रिणः । अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी ॥ इति । 'पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपीति हेमकोशः । तत्तुल्याकृतिर्यस्या इत्यर्थः । ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १९८ ॥ _ 'ओजोऽष्टमधातुरिति वेदभाष्ये । इन्द्रियसामर्थ्यमित्यन्ये । 'ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः । ओजो बले च दीप्तौ चेति तु विश्वः । तान्यस्यां सन्तीत्योजोवती। धरतीति धरा पचाद्यच् । धुतेः कान्तेर्धरा । 'यज्ञो वै विष्णु रिति श्रुतेः तदभिन्ना देवी यज्ञरूपा । यज्ञा एव वा रूपमस्याः । तदुक्तं हरिवंश-पद्मपुराणयोरीश्वरं प्रक्रम्य वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः । अग्निजिह्वो धर्मरोमा ब्रह्मशीर्षो महातपाः॥ अहोरात्रेक्षणो दिव्यो वेदान्तश्रुतिभूषणः । सुवतुण्डश्चाज्यनासः सामघोषस्वनो महान् ॥ धर्मसत्यमयः श्रीमान्क्रमविक्रमसक्रियः । प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः॥ औद्गात्रान्त्रो होमलिङ्गः फलबीजमहौषधिः। वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः॥ वेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरर्चितः ॥ दक्षिणाहृदयो योगी महामन्त्रमयो महान् । उपाकर्मोऽष्टचिबुकः प्रवर्गावर्तभूषणः॥ नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायो वै मेरुशृङ्ग इवोच्छ्रितः॥ इति । यद्वा, 'इन्द्रियद्वारसंगृर्गिन्धाद्यैरात्मदेवताम् । स्वभावेन समाराध्य ज्ञातुः सोयं महामखः ॥' ओजस्तेजस्तद्वती । ओजोवत्यै इति ॥ श्रुतेः कान्तेर्धरा । धरायै इति ॥ यज्ञ एव रूपं यस्याः सा | रूपायै इति ॥ प्रियाणि व्रतानि यस्याः सा | व्रतायै इति ॥ १९८ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy