________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
250
ललितासहस्रनामस्तोत्रम् इति । यद्वा 'क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । तदुभयमात्मा स्वरूपं यस्याः । 'सदसत्क्षरमक्षर मिति महाभारते । विष्णुभागवतेऽपि
'विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यानि ये विदुः । प्रथमं महतः स्रष्टा द्वितीयं त्वण्डसंस्थितम् ॥
तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते । इति । सर्वेषां लोकानामीशी ईश्वरी । विश्वं धारयतीति तथा ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १९७ ॥ त्रयाणां धर्मार्थकामानां वर्ग: समूहः । 'त्रिवर्गो धर्मकामार्थेश्चतुर्वर्गः समोक्षक'रित्यमरः । तस्य दात्री वितरणपरा । पञ्चवत्सरा कन्या सुभगेत्युच्यते । कन्याप्रकरणे'सुभगा पञ्चवर्षा स्यादिति धौम्यवचनात् । तदभिन्ना | यद्वा श्रीकाममाहात्म्यवीर्ययत्नकीर्त्यादयो भगपदवाच्या: शोभना यस्यां सा ।
भगमैश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु।
यशोवीर्यप्रयत्नेच्छाश्रीधर्मरविमुक्तिषु ॥ इति विश्वः । शोभनो भगः सूर्यो यया वा । सौरकार्येषु सर्वेषु तदन्तस्थिताया अस्याः शक्तेरेव निमित्तत्वात् । तदुक्तं विष्णुपुराणे द्वितीयेंऽशे
'सर्वा शक्तिः परा विष्णोर्ऋग्यजुःसामसंज्ञिता। सैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या ॥ मासि मासि रविर्यत्र तत्र तत्र हि सा परा। त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ ऋचस्तपन्ति पूर्वाह्न मध्याह्ने तु यजूंषि वै । बृहद्रथन्तरादीनि सामान्यह्नःक्षये रवौ ॥ मूर्तिरेषा त्रयी विष्णोर्ऋग्यजुःसामसंज्ञिता। विष्णुशक्तिरवस्थानं सदादित्ये करोति या॥ न केवलं रवौ शक्तिर्वैष्णवी सा त्रयीमयी । ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥ नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक् तस्य गणः सप्तमयोऽप्ययम् ॥
त्रयाणां धर्मार्थकामानां वर्गसमूहः, तस्या दात्री | दात्र्यै इति ॥ शोभनं भग़मैश्वर्यं यस्याः सा । सुभगायै इति ॥ त्रीण्यम्बकानि नेत्राणि यस्याः सा । त्र्यम्बकायै इति ॥ सत्त्वादित्रिगुणरूपा । आत्मिकायै इति ॥ १९७ ॥
For Private and Personal Use Only