SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 249 इति । पर्ण पतनमिति नैरुक्तात्पतनरहितेति वा । पर्णमप्यदनीयत्वेन न विद्यते यस्यास्तपस्यन्त्या इति वा । तदुक्तं कालिकापुराणे 'आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता। तेन देवैरपर्णेति कथिता पृथिवीतले ॥ इति । ब्रह्मपुराणेऽपि- 'अपर्णा तु निराहारा तां माता प्रत्यभाषते त्यत्र प्रथमचरणेनेयमेव व्युत्पत्तिर्ध्वनिता । 'चडि कोपे' अभक्तेषु कोपनत्वाच्चण्डिका । देवीभागवते- 'चण्डिका सप्तवर्षा स्यादिति कन्याविशेषस्य नामोक्तम् । चण्डश्च मुण्डश्च तौ च तावसुरौ च तौ निषूदयतीति तथा । तेन चामुण्डाख्यं नामास्या एवेति सूचितम् । उक्तञ्च मार्कण्डेयपुराणे 'यस्माच्यण्डं च मुण्डं च गृहीत्वा त्वमुपागता। चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ इति । वराहपुराणे तु देवी च त्रिशिखेनाजौ तं रुरुं समताडयत् । तया तु ताडिते तस्य दैत्यस्य शुभलोचने ॥ चर्ममुण्डे उभे सम्यक् पृथग्भूते बभूवतुः । रुरोस्तु दानवेन्द्रस्य चर्ममुण्डेक्षणाद्यतः ॥ अपहृत्याचरदेवी चामुण्डा तेन साभवत् ।' इत्युक्तम् । 'कर्ममोटी तु चामुण्डा चर्ममुण्डा च चर्चिकति कोशाच्चर्ममुण्डेत्यपि देवीविशेषस्य नाम दृश्यते । तेन वाराहे- 'चर्ममुण्डेति साभवदित्येव पाठः स्यादित्यनुमीयत इत्यन्यदेतत् । चण्डानि प्रचण्डानि अत्यन्तकोपनचिह्नभूतनेत्रशोणिमादिवन्ति वा मुण्डानि येषामसुराणां तन्निषूदनीति वा । हन्यमानानां तादृशमुण्डवत्त्वविशेषणस्वारस्येन तादृशमुण्डमालाधरेति कालिकारूपध्वनिः ॥ १९६ ॥ क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी। क्षराण्यनियतसंख्यान्यक्षराणि वर्णानि आत्मा स्वरूपं यस्याः । एकानेकाक्षराकृतिरित्यर्थः । उक्तञ्च वराहपुराणे 'एकाक्षरेति विख्याता सर्वाक्षरमयी शुभा। सैव विश्वेश्वरी देवी सैव क्वाप्यमिताक्षरा ॥ क्षराक्षरौ अनित्यनित्यवस्तू । तदात्मिका तद्रूपा | आत्मिकायै इति || सर्वेषां लोकानां ईशी ईश्वरी । ईश्य इति || विश्वं जगद्धारयतीति सा । धारिण्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy