________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
248
ललितासहस्रनामस्तोत्रम् रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १९५॥ रोगा एव पर्वताः स्थूलत्वात्तेषां दम्भोलिर्वज्र इव 'भिषक्तम त्वा भिषजां शृणोमि' इति श्रुतेः पुंलिङ्ग एवायं शब्दः । तेन रोगपर्वतदम्भोलये नम इत्येव प्रयोगो न पाक्षिको 'दम्भोल्यै नम इति । यद्वा 'शतकोटिः स्वरुः शम्बो दम्भोलिरशनियो रित्यग्निपुराणे दम्भोलिपदस्य शम्बपदेनेवाशनिपदेनापि साहचर्यात्स्त्रीलिङ्गतापि सुवचा । कां विधिं समुपस्कृत्येति मोक्षधर्मीयप्रयोगनिर्वाहाय तट्टीकाकाराणां 'भाग्यं स्त्री नियतिविधि रित्यत्र नियतिपदसाहचर्यमात्रवशेन पुंलिङ्गत्वेन प्रसिद्धस्यापि विधिपदस्य स्त्रीलिङ्गतेति व्याख्यानदर्शनात् । एतत्पक्षे पाक्षिको दम्भोल्यै नम इति प्रयोग: सङ्गच्छते । पूर्वमशक्तिसिद्धितुष्टिभेदभिन्ना अष्टाविंशतिर्वधा उक्ताः ते मृत्युदारुपदेनोच्यन्ते । दारुपदस्योक्तपरिभाषायामष्टाविंशतिसंख्यापरत्वात् । श्लेषेण काष्ठान्यपि कथ्यन्ते । तेषां छेदकत्वात्कुठारेव स्वार्थे कः । 'द्वयोः कुठार' इति कोशः । 'मृत्युर्यस्योपसेचन मिति श्रुतेः। अष्टसु नामसु रूपकालङ्कारः ॥ १९५ ॥
महेश्वरी महाकाली महाग्रासा महाशना ।
महती च सेश्वरी च माहेश्वरीति पूर्वं व्याख्यातं नाम | अनयोर्हस्वदीर्घादिमत्त्वाभ्यां न पौनरुक्त्यम् । महती च सा काली च | कालयतीति काली | कालने महत्वं तु मृत्योरपि कालनात् । तथा च कालिदासः
'एतदम्ब सदिदं तु नेति नः शङ्कया हृदि विकल्पलक्षणः।
यो यमः स खलु काल्यते त्वया भूतसंयमनकेलिकोविदः ।। इति । उज्जयिनिपीठाधीशमहाकालस्य स्त्रीति वा । महानपरिमितो ग्रासः कवलो यस्याः । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन' इति श्रुतेः । महच्चराचरकर्मकत्वादशनं यस्याः । अत्र तृतीयो वर्णस्तालव्यः पूर्वं तदन्त्यतृतीयकं नाम व्याख्यातमिति न पौनरुक्त्यम् |
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदनी ॥ १९६ ॥ अपगतमृणं यस्याः साऽपर्णा । तदुक्तमस्माभिर्देवीस्तवे
'ऋणमिष्टमदत्वैव त्वन्नाम जपतो मम । शिवे कथमपणेति रूढि रायते न ते ॥
रोगरूपपर्वतभेदने दम्भोलिरशनिरूपा । दम्भोलये इति ॥ मृत्युरूपदारुणः छेदने कुठारिकेव । कुठारिकायै इति ॥ १९५ ॥
महती च सा ईश्वरी चेति । ईश्वर्यै इति || महाकालस्य स्त्री । काल्यै इति ॥ महानपरिमित: जगद्रूपः ग्रासो यस्याः सा । ग्रासायै इति ॥ महज्जगद्रूपमशनं आहारः यस्याः सा । अशनायै इति ॥
भक्तानामपगतं ऋणं यस्याः प्रसादात् । अपर्णायै इति ॥ चण्डिका दुष्टेषु क्रोधिनीत्वात् । चण्डिकायै इति ॥ चण्डमुण्डाख्यावसुरौ निषूदतीति सा । निषूदिन्यै इति ॥ १९६ ॥
For Private and Personal Use Only