SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 247 सौभाग्यभास्कर-बालातपासहितम् इति । पापान्येवारण्यानि दुःखजनकत्वात् । तेषां दवानल इव नाशकत्वात् । पापारण्यानां दवानलो यस्या नाम सेति वा | तदुक्तं बृहन्नारदीये 'गङ्गायाः परमं नाम पापारण्यदवानलः । भवव्याधिहरी गङ्गा तस्मात्सेव्या प्रयत्लतः ॥ इति । यद्वा पापारण्यानां ये दवाः दावाग्नयो नाशनोपायभूता उपास्त्यादयस्तेषां अनान् प्राणान् लाति आदत्ते तान् जीवयतीति यावत् । पापापहानि कर्माणि प्रथयतीत्यर्थः । तदुक्तं ब्रह्माण्डे 'कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा। प्रायश्चितं परं प्रोक्तं पराशक्तेः पदस्मृतिः ॥ इति । तत्रैवाध्यायान्तरे 'इदं च शृणु देवेन्द्र रहस्यं परमं महत् । सर्वेषामेव पापानां योगपद्येन नाशनम् ॥ भक्तिश्रद्धासमायुक्तः स्नात्वान्तर्जलसंस्थितः । अष्टोत्तरसहस्रं तु जपेत्पञ्चदशाक्षरीम् ॥ आराध्य परमां शक्तिं मुच्यते सर्वकिल्बिषैः।' इत्यादि । दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १९४॥ ___ दौर्भाग्यमेव तूलं कार्पास तस्य वातूल इव वात्येव दूरं निरासिकेति यावत् । 'वातूलः पुंसि वात्यायामित्यमरः । यद्वा दौर्भाग्यं तूलं येषां ते दौर्भाग्यतूलाः दौर्भाग्यस्य तूलस्येव निरासका धर्मविशेषाः । अत एव ते धर्मा एव वातूले गौण्यावृत्त्या तेन दौर्भाग्यतूलः वातूला यस्याः सकाशात्सेति विग्रहः । दौर्भाग्यनिरासकानि कर्माणि यस्याः सकाशादुद्भवन्ति । यस्याः सम्बन्धीनि वा सेति यावत् । जरैव ध्वान्तमन्धकारं तस्य नाशकत्वाद्रवे: प्रभेव ॥ १९४॥ भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना । भाग्यलक्षणस्याब्धेरुल्लासकत्वाच्चन्द्रिका कौमुदीव । भक्तानां चित्तान्येव केकिनो मयूरास्तेषामुल्लासकत्वाद्धनाघना मेघस्वरूपा । यद्वा घनपदेनैव मेघा उच्यन्ते । देवीकृतानि चरित्राण्येव भक्तचित्तकेकिघनरूपाणीति गौण्या तेन पदेन चरित्राणि कथ्यन्ते । भक्तचित्तकेकिघनैरासमन्ताद्धना निरन्तरेत्यर्थः । ___ दौर्भाग्यं दुरदृष्टं तदेव तूलं कार्पासं तस्य दूरीकरणे वातूला वायुसमूहरूपा। वातूलायै इति || जरावार्धिक्यं तद्रूपध्वान्तस्यान्धकारस्य नाशने रवेः प्रभारूपा । प्रभायै इति ॥ १९४ ॥ . ____ भाग्यरूपसमुद्रस्योत्सेककरीत्वाच्चन्द्रिकेव चन्द्रिका । चन्द्रिकायै इति ॥ भक्तानां चित्तात्मककेकिनां मयूराणां हर्षकृत्वाद् (करणात्) घनाघना मेघस्वरूपा । घनाघनायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy