SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 ललितासहस्रनामस्तोत्रम् इति । मुक्तिरेव रूपमस्याः । अविद्यानिवृत्तेर्वसरूपत्वे पञ्चमप्रकाररूपत्वे वा परमपुरुषार्थत्वानापत्त्या तदुपलक्षितस्वात्मानन्दस्यैव मोक्षताया वक्तव्यत्वात् । उक्तञ्च सौरसंहितायां चतुर्दशेऽध्याये 'अथ मुक्तेः स्वरूपं ते प्रवक्ष्यामि समासतः। यज्ज्ञानेन परा मुक्तिः सिध्यत्यखिलदेहिनाम् ॥ इत्युपक्रम्य ज्ञानस्य तत्र कारकहेतुतां 'ज्ञानं न कारकं विद्वदोधकं खलु केवल'मित्यादिना निरस्य 'कार्यद्रव्यतया नैव स्थिता भवितुमर्हती त्यादिना मुक्तेर्द्रव्यगुणकर्मसामान्याद्यात्मतामपि निरस्य 'अतः साक्षात्परा मुक्तिः स्वात्मभूतैव केवल मित्यादिना सिद्धान्तं संसाध्य 'तस्मादात्मस्वरूपैव परा मुक्तिरविद्यया। तिरोभूता विशुद्धस्य विद्यया व्यज्यतेऽनघ ।' इत्युपसंहारात् । लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १९३ ॥ लास्यं नर्तनं प्रियं यस्याः । लयश्चित्तावस्थाविशेषः । 'दशध्यानसमो लय' इति वचनात् । तालैर्नृत्यगीतयोः समकालपरिच्छेदो वा लयः तस्य करी कीं । 'या देवी सर्वभूतेषु लज्जारूपेण संस्थितेति स्मरणाल्लज्जा । हृल्लेखाबीजस्वरूपा वा । रम्भोर्वश्यादिभिरप्सरोभिर्वन्दिता || १९३ ॥ भवदावसुधावृष्टिः पापारण्यदवानला। भवः संसार एव दावो वनवह्निस्तस्य शामकत्वात्सुधावृष्टि: पीयूषवर्षमिव । भवः संसार एव दावोऽरण्यम् । 'दवदावौ वनारण्यवह्नी' इत्यमरः । तस्य पुङ्खानुपुङ्खतयोज्जीवनात्पीयूषवृष्टिरिवेति वा । भवं परशिवं दत्ते वसु रत्नं धनं च धत्ते एतादृशी वृष्टिरिति त्रिपदं नाम वा । भोगमोक्षप्रदेति यावत् । उक्तञ्च रुद्रयामले मङ्गलराजस्तवे 'यत्रास्ति भोगो न तु तत्र मोक्षो यत्रास्ति मोक्षो न तु तत्र भोगः । श्रीसुन्दरीसाधकपुङ्गवानां भोगश्च मोक्षश्च करस्थ एव ॥ लास्यं नृत्यं प्रियं यस्याः सा । प्रियायै इति ॥ लयं तालविशेष करोतीति सा । कर्ये इति ॥ लज्जा रूपा | लज्जायै इति || रम्भाद्यप्सरोभिर्वन्दिता । वन्दितायै इति ॥ १९३ ॥ भवः संसारः तद्रूपो दावो वनाग्निर्भक्तानां तन्निवारणे सुधावृष्टिरूपा । वृष्ट्यै इति ॥ भक्तानां पापात्मकारण्यस्य नाशने दवानला वनाग्निरूपा । अनलायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy