________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
विवक्षया स्त्रीलिङ्गम् । यद्वा अधिष्ठाशब्द एवाधिष्ठानपरः । ततश्च जगदधिष्ठारूपं ब्रह्मैव अनः प्राणो यस्या इति विग्रहः । यद्वा अधिष्ठानशब्दो मत्वर्थीयांच्प्रत्ययेनाधेयपरः । तेन मिथ्याजगदधिष्ठानमधिष्ठितं यस्या इति विग्रहः । वस्तुतस्तु जगतो ब्रह्मपरिणामकत्वं स्वीकुर्वतां तान्त्रिकाणां मते जगतः सत्यत्वमेव मृद्घटयोरिव ब्रह्मजगतोरत्यन्ताभेदेन ब्रह्मणः सत्यत्वेन जगतोऽपि सत्यत्वावश्यंभावात् भेदमात्रस्य मिथ्यात्वस्वीकारेणाद्वैतश्रुतीनामखिलानां निर्वाहः । भेदस्य मिथ्यात्वादेव भेदघटिताधाराधेयभावसम्बन्धोऽपि मिथ्यैव । तावन्मात्रेणैवाविरोधे सर्वस्य जगतो मिथ्यात्वकल्पनं तु वेदान्तिनामनर्थकमेवेति शाम्भवानन्दकल्पलतायां विस्तरः । ततश्च मिथ्याभूतं जगतोऽधिष्ठानं भेदघटितसम्बन्धेनावस्थितिर्यस्यामिति विग्रहात् स्त्रीलिङ्गतोपपत्तिः ॥
अथ परिभाषामण्डले त्रिचत्वारिंशन्नामानि विभजते
गौ: शैवे विरते चतुरङ्घ्रितनुर्द्विश्चतुर्बलं नेतुः । द्विर्मे गङ्गामाता रजश्चतुर्भावजलमदाद्भावैः ॥ २७ ॥
अत्र नकाराभ्यां दशाक्षरे नामनी ॥ २७ ॥
- मुक्तिदा मुक्तिरूपिणी ।
मुक्तिं मोक्षं ददातीति मुक्तिदा । तथा च श्रीकूर्मपुराणे'तस्माद्विमुक्तिमन्विच्छन्पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥
इति । शिवपुराणेऽपि -
Acharya Shri Kailassagarsuri Gyanmandir
इति । ब्रह्माण्डपुराणेऽपि -
'नामानि ये महेशस्य गृणन्त्यज्ञानतोऽपि वा । तेषामपि शिवो मुक्तिं ददाति किमतः परम् ॥'
For Private and Personal Use Only
245
'येऽर्चयन्ति परां शक्तिं विधिनाविधिनापि वा । न ते संसारिणो नूनं मुक्ता एव न संशयः ॥'
भक्तानां मुक्तिं ददातीति सा । मुक्तिदायै इति ॥ मुक्तिरेव रूपं अस्याः सा । रूपिण्यै इति ॥