________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर- बालातपासहितम्
इति । सर्वाणि चतुःषष्टिसंख्याकानि तन्त्राणीष्टे समर्थयति । शिवस्य दक्षिणाभिमुखी मूर्तिर्ब्रह्मनारायणादेरध्यापकत्वेन प्रसिद्धा । यस्या मन्त्रास्तन्त्रेषु प्रसिद्धाः स एव रूपमस्याः ।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १९१ ॥
सनकसनन्दनादिभिः सम्यगाराध्योपास्या । अत एव तेषां गुरुपरम्परायां गणना | तदुक्तं ब्रह्माण्डे
'त्वमेवानादिरखिला
कार्यकारणरूपिणी ।
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥' इति । शिवविषयकं ज्ञानं प्रकर्षेण दत्ते । तदुक्तं वासिष्ठरामायणे'स्पन्देन लभ्यते वायुर्वह्निरौष्ण्येन लभ्यते । चिन्मात्रममलं शान्तं शिव इत्युदितं तु यत् ॥ यत्स्पन्दमयशक्त्यैव लक्ष्यते नान्यथा किल ।'
243
इति । शिवो ज्ञानप्रदायी यस्या वा । अत एव वराहपुराणे त्रिमूर्तिं प्रकृत्य 'एतास्तिस्रोsपि सिध्यन्ति यो रुद्रं वेत्ति तत्त्वत' इति ॥ १९९ ॥
चित्कलानन्दकलिका प्रेमरूपा प्रियङ्करी ।
चिदेव कला सच्चिदानन्दात्मनो ब्रह्मण एकदेश इव यस्यां सा । यद्वा अन्तःकरणोपाधिकं चैतन्यं निरुपाधिकायाश्चित एकदेश इति । 'ममैवांशो जीवलोके जीवभूतः सनातन' इति स्मृतेः । पद्मपुराणेऽपि देवीमूर्तिगणनप्रकरणे - चित्तेषु चित्कला नाम शक्तिः सर्वशरीरिणामिति । एवमेवानन्द एव कलैकदेश इव यस्याः । शोषाद्विभाषेति 'कप्रत्ययः । जीवगतानन्दैकदेशरूपा वा । स्वार्थे कः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः । आनन्दमयः कोरको वा । 'कलिका कोरकः पुमानिति कोश: । प्रेम स्नेहो भक्तिरेव स्वरूपं यस्याः । आयुर्धृतमितिवद्रूपाभिव्यक्तिजनकेऽपि रूपपदप्रयोगः । प्रियं करोतीति प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १९२॥
For Private and Personal Use Only
सनकादिभिः सम्यगात्माऽभेदभावनेनाराध्या । आराध्यायै इति ॥ शिवविषयकं ज्ञानं प्रददाति भक्तेभ्य इति सा । प्रदायिन्यै इति ॥ १९९ ॥
चितः ज्ञानरूपिणः शिवस्य कलेव कलाशक्तिः । कलायै इति ॥ आनन्दमयि कलिका कोरकः । कलिकायै इति ॥ प्रेम प्रीतिः तद्रूपं स्याः सा । भक्तविषयकप्रेममयीति भावः । रूपायै इति ॥ भक्तेषु प्रियं करोतीति सा । कर्ये इति ॥
षट्त्रिंशदुत्तरसप्तशताधिकविंशतिसहस्रमन्त्रावृत्तिरूपं यन्नामपारायणं तेन प्रीता । प्रीतायै इति ॥ नन्दिना नन्दिकेश्वरेण उपासिता या विद्या । विद्यायै इति ॥ नटेश्वरः परशिवः तस्येयम् । ईश्वर्यै इति ॥ १९२॥