________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
240
ललितासहस्रनामस्तोत्रम्
सर्वेषां वेदान्तानामद्वैते पारमार्थिक परब्रह्मणि साक्षात्परम्परया वा तात्पर्यस्य वक्तव्यत्वाद्भेदप्रतिपादकशास्त्रस्य पञ्चषाङ्गुलग्रासावेदकोपरागशास्त्रस्येव व्यावहारिकदृष्ट्यैव प्रवृत्तिरिति न भेदाभेदयोः समकक्ष्यतेति भावः । तार्किकप्रसिद्धोपाधिशून्या तादृशसद्धेतुगम्येति वा । नन्वेवंसति त्रिपुरसुन्दर्याः शक्तिरूपत्वात्तस्याश्च पराहन्ताधर्मरूपत्वाविशेषेण मिथ्यात्वप्रसङ्ग इत्यत आह-सदेति । शिव एव पतिरिति व्रतं नियमः सदा सार्वकालिको यस्याः । शिवस्य पत्नीत्वं शिववदेव सदातनं कालत्रयाबाध्यमिति यावत् । इतरे तु पदार्थाः कल्पितास्तेषु धर्मत्वमपि दृश्यत्वाविशेषात्कल्पितमेव । शक्तौ तु धर्मत्वमात्रं कल्पितं न तु शक्तिरपि कल्पिता । अत एव सा ब्रह्मकोटिरिति भावः । सदाशिवस्य पतिव्रतेति वा । ननु कथमेतदवगम्यते । पराहन्तातिरिक्ता एव धर्माः कल्पिता इति । प्रत्युत विनिगमनाविरहेण सर्वेषामेव धर्माणां मिथ्यात्वमेव वा [ सत्यत्वमेव ] वा स्यादित्यत आह । सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १८९ ॥
सम्यक् शिष्येभ्यः प्रदीयत इति सम्प्रदायः । तत्रेश्वरी समर्था समर्थनक्षमा । न्यायैः सम्प्रदायेन चैतदवगम्यत इत्यर्थः । यथा हि निर्धर्मके ब्रह्मणि वियदादयो धर्माः कल्पिताः वियदाद्यवच्छिन्नेऽपि चैतन्यै पुनःशब्दविषयत्वद्रव्यत्वधर्मत्वादयस्तदवच्छिन्नचैतन्येष्वपि पुनर्धर्मत्वादयः कल्पितास्तथा धर्मत्वस्यापि धर्मित्वस्येव दृश्यस्य निर्धर्मकेऽपि ब्रह्मणि सुकल्पत्वादेकस्यैव धर्मधर्मिभावे न्यायेनैव सिद्धे तत्र शिव एव धर्मी शक्तिरेव धर्म इति तु सम्प्रदायादवगन्तव्यमिति भावः । ब्रह्मैव शक्यप्रपञ्चप्रतियोगित्वेन शक्तिरित्युच्यत इति साम्प्रदायिकाः । सम्प्रदायसंज्ञको मन्त्रार्थोऽपि योगिनीहृदये दत्तात्रेयसंहितायां च प्रसिद्धः । स च कादिविद्यायामेव स्वरस इति तु वरिवस्यारहस्य एवोपपादितमस्माभिः । तदीश्वरीत्यर्थो वा । युक्तं चैतदित्याह । साधु उचितम् । दाहकत्वादिशक्तेर्वह्निधर्मताया एव लोके दर्शनात्पराहन्ताशक्तेर्धर्मत्वमेव वक्तुमुचितमिति भावः । नपुंसकमिदं नाम । तेन साधुने नम' इति प्रयोगः । तेन साध्वी सद्गतिदायिनीत्यनेन न पौनरुक्त्यम् । तस्य धर्मस्य द्वे रूपे इत्याह । ई तुर्य - स्वरूपमेकाक्षरं कामकलासंज्ञकमिदं नाम । विष्णुपरात्प्रथमस्वररूपादकारात् अस्य 'भगिनी ई इति विग्रहे पुंयोगलक्षणे ङीषि 'यस्येति चेत्यकारलोपेऽवशिष्टात्प्रत्ययमात्रात्परतः प्राप्तस्य सुपो हल्ड्यादिना लोपे रूपसिद्धिः । यैनम इति प्रयोगः न पुनर्भार्याभर्तृभाव एव पुंयोगः । पितृपुत्रीभावस्यापि पुंयोगपदेन स्वीकृतत्वात् । सुभद्रा
सम्यक् प्रदीयते शिष्येभ्यः । तस्य सम्प्रदायस्येश्वरी स्वामिनी । ईश्वर्यै इति ॥ साधु उचितरूपा ॥ नपुंसकं नाम । साधुने इति । अस्य परशिवस्य स्त्री । ई इति ॥ गुरूणां यन्मण्डलं ओघत्रयरूपं तस्य रूपमस्या: । रूपिण्यै इति ॥ १८९ ॥
For Private and Personal Use Only