________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
239
सौभाग्यभास्कर-बालातपासहितम् 239 कण्ठो+रेखातन्त्रेण ससर्ज सकलाम्बिका । आयुर्वेदं धनुर्वेदं कण्ठमध्यस्थरेखया ॥ चतुःषष्टिं च विद्यानां कण्टकूपभुवासृजत् ।
तन्त्राणि निखिलाङ्गेभ्यो दोर्मूले मदनागमम् ॥ इत्यादि । ननु भेदभानं न केवलं लौकिकं चन्द्रप्रादेशिकत्वज्ञानवत्, किन्तु शास्त्रीयमेवेति शङ्कते । गुहाम्बा गुहायां स्थिताम्बा । छायारूपेति यावत् । मध्यमपदलोपी समासः ।
'ऋतं पिबन्तौ सुकृतस्य लोके गृहां प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेता ॥ इति श्रुतौ गुहाप्रविष्टत्वेन वर्णितयोश्छायातपयोः परस्परविलक्षणतया द्विवचनबलाच्च भेदसिद्धिरिति भावः । यद्वा गुहस्य स्कन्दस्याम्बा माता । तस्यास्तारकासुरवधादिकार्यार्थं देवैः प्रार्थनं तत: शिवशक्त्योः समागमस्तत्र विघ्नाचरणं तेन कोपशापादि । ततोऽग्निगङ्गाशरस्तम्बादियोगेन स्कन्दोत्पत्तिरित्यादिकथायाः शास्त्रैकगम्याया एव भेदसाधकत्वादद्वैतश्रुतीनामेवोपचरितार्थता वक्तव्या । 'यजमानः प्रस्तर इति श्रुतेरिव प्रत्यक्षविरोधादिति भावः । सत्यमयं व्यवहारः सर्वोऽपि व्यावहारिकसत्यत्वावलम्बनः । अद्वैतं तु पारमार्थिकं सत्यत्वमालम्बत इत्याशयेन समाधत्ते । गुह्यरूपिणी । गुहायां स्थितं गुह्यं परमरहस्यं व्यावहारिकदृष्ट्ययोग्यं ज्ञानमेव रूपमस्याः । उक्तञ्च सूतसंहितायाम्
'गुरुमूर्तिधरां गुह्यां गुह्यविज्ञानरूपिणीम् ।
गुह्यभक्तजनप्रीतां गुहायां निहितां नुमः॥ इति । तथा चैकस्यैव ब्रह्मणो द्वे रूपे अवलम्ब्य द्विविधमपि शास्त्रमुपपद्यत इति भाव: । गुह्योपनिषदेव रूपमस्या इति वा । तदुक्तं कौम विभूतियोगवर्णनावसरे 'सर्वोपनिषदां देवि गुह्योपनिषदुच्यसे' इति ॥ १८८ ॥ ननु तर्हि शास्त्रद्वयप्रामाण्यात् भेदाभेदप्रसक्तिरिति नाद्वैत सिध्येदित्यत आह
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता। सर्वैः स्कन्दजनकत्वच्छायातपत्वादिभिरुपाधिभिः सखण्डैरखण्डैश्च धर्मैर्विशिष्य निःशेषेण मुक्ता त्यक्ता धर्मसम्बन्धशून्या । ततश्च धर्माणां स्वसम्बन्धाभाववति भासमान: सम्बन्धः शुक्तौ रजततादात्म्यमिव मिथ्यैवेति शास्त्रस्य सत्यावेदकत्वरूपप्रामाण्यनिर्वाहाय ___ सर्वैरुपाधिभिर्विशेषेण निर्मुक्ता । मुक्तायै इति || सदाशिवस्य पतिव्रता । पतिव्रतायै इति ।
For Private and Personal Use Only