SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 ललितासहस्रनामस्तोत्रम् सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १८८ ॥ ननु घटपटयोर्भेदभानस्यापि तुल्यन्यायेन मोहमात्रत्वात्तयोरप्यभेद एवास्त्वत आह–सरस्वती । ज्ञानाभिमानिनी देवता ज्ञानसमुद्ररूपेत्यर्थः । विषयानवच्छिन्नज्ञानरूपेति यावत् । घटादिजडपदार्थनिर्णये मोहस्यायोगेऽपि 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव' इति वचनेन ज्ञानरूपाद्वैतविषये ज्ञानावरणस्यावश्यकत्वात्तन्निर्णये सर्वानर्थनिरासकपरमपुरुषार्थरूपे पापिनां भवत्प्रसादविधुराणां मोह आवश्यक इति भावः । यद्वा कन्याः प्रक्रम्य 'द्विवर्षा तु सरस्वतीति धौम्यवचनात्तादृशकन्यारूपेत्यप्यर्थः । भरद्वाजस्मृतावपि 'या वसेत्प्राणिजिह्वासु सदा वागुपवर्तनात् । सरस्वतीति नाम्नेयं समाख्याता महर्षिभिः ॥ इति । 'सरणात्सर्वदृष्टीनां कथितेषा सरस्वतीति वासिष्ठरामायणे च । ननु नायं दिङ्मोहादितुल्यो मोह: । विरुद्धधर्मसमावेशादियुक्तिसहस्रैर्भेदस्यानुमीयमानत्वादित्यत आह-शास्त्रमयी । प्रधानाऽर्थो यं मयट् । 'सर्वं खल्विदं ब्रह्मे'त्यादिशास्त्रप्रधाना । अयं भावः । शास्त्रमेवेह प्राधान्येन गमकं नत्वनुमानादि | तस्य शास्त्रतो दुर्बलत्वात् । अत एव 'शास्त्रयोनित्वादिति ब्रह्मसूत्रम् । वेदैकवेद्यत्वबोधकश्रुतयश्च 'तं त्वौपनिषदं पुरुषं पृच्छामी'त्यादयः । ततश्च सर्वस्य वस्तुजातस्य ब्रह्माभेदे शास्त्रेण बोधिते मन्त्रे तृतीयकूटेनाप्यनूदिते तद्विरोधादनुमितेरेव भ्रमत्वं कल्प्यम् । वेदन्तानामैदंपर्येण ब्रह्मैकनिर्णयाय प्रवृत्तेः । अत एव तादृशज्योतिःशास्त्रविरोधाच्चन्द्रप्रादेशिकत्वविषयकस्य सार्वजनीनप्रत्यक्षस्यापि भ्रमत्वं कल्पत इति शास्त्रात्मकस्वावयवशालिविग्रहत्वाच्छास्त्रविकारेत्यप्यर्थः । तदुक्तं ब्रह्माण्डे 'निश्वासमारुतैर्वेदानृचं साम यजुस्तथा । अथर्वाणमहामन्त्रानभिमानेन चासृजत् ॥ काव्यानाट्याचलङ्कारानसृजन्मधुरोक्तिभिः। सरस्वती च जिह्वायाः ससर्ज सकलप्रसूः ॥ चुलकेन चकोराक्षी वेदाङ्गानि ससर्ज षट् । मीमासां न्यायशास्त्रं च पुराणं धर्मसंहिताम् ॥ सरस्वती ज्ञानाभिमानिनी, तद्रूपा । सरस्वत्यै इति ॥ शास्त्रमयी प्रतिपाद्यत्व-सम्बन्धेन शास्त्रप्रचुरा । मय्यै इति ॥ गुहस्य स्कन्दस्याम्बा माता । अम्बायै इति ॥ गुह्यं अतिगुप्तं रूपं अस्याः सा । रूपिण्यै इति ॥ १८८ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy