SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 237 __सौभाग्यभास्कर-बालातपासहितम् द्योतकस्य भविष्यसीत्यस्य सर्वक्षेत्रेषु तव सगुणमूर्तयो भविष्यन्तीत्येतत्परत्वम् । अतः सर्वक्षेत्रेषु विद्यमानेत्यप्यर्थः । सर्वान्तर्यामिणीति वा । ईदृशार्थत्रयमप्यभिप्रेत्योक्तं देवीपुराणे दिव्या वा एष सिद्धान्तः परमार्थो महामते । एषा वेदाश्च यज्ञाश्च स्वर्गश्चैव न संशयः॥ देव्या व्याप्तमिदं सर्व जगत्स्थावरजङ्गमम् । ईड्यते पूज्यते देवी अन्नपानात्मिका च सा॥ सर्वत्र शाङ्करी देवी तनुभिर्नामभिश्च सा । वृक्षेपूर्व्या तथा वायौ व्योम्न्यस्वग्नौ च सर्वगा ॥ एवंविधा ह्यसौ देवी सदा पूज्या विधानतः। ईदृशीं वेत्ति यस्त्वेनां स तस्यामेव लीयते ॥ इति । ननु नित्यत्वानित्यत्वजडत्वचित्त्वादिविरुद्धधर्मसमावेशात्कथमन्योन्याभावप्रतियोगित्वस्य ब्रह्मण्यभाव इत्यत आह । सर्वमोहिनी सर्वान्प्राकृतजनान् भेदभाने सत्यत्वं मन्यमानान् मोहयति अद्वैतविषयकज्ञानविधुरान् कुरुते इति तथा । ब्रह्मणो जगतश्च भेदभानस्य मोहमात्रत्वाद्वस्तुतोऽपरिच्छेद्यत्वे न कापि क्षतिरिति भावः । उक्तञ्च कूर्मपुराणे शिवेन 'इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी । माया मम प्रियानन्ता ययेदं मोहितं जगत् ॥ अनयतज्जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठाः सृजामि विसृजामि च ॥ इति । अत्रैव हिमवन्तंप्रति देवीवचनम् 'यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन्विविधानि तु । श्रुतिस्मृतिविरुद्धानि द्वैतवादरतानि च ॥ कापालं भैरवं चैव शाकलं गौतमं मतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ ये कुशास्त्राभियोगेन मोहयन्तीव मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ इति । सूतसंहितायामपि 'प्रसादहीनाः पापिष्ठा मोहिता मायया जनाः। नैव जानन्ति देवेशं जन्मनाशादिपीडिताः ॥ इति । सर्वं त्रैलोक्यं मोहयतीति वा । त्रैलोक्यमोहनचक्रविद्योभयरूपेति यावत् । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy