SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमशतकं नाम नवमी विश्वा कला देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी । देशकालाभ्यामपरिच्छिन्ना तत्कृतपरिच्छेदाभाववती । उक्तञ्च योगसूत्रे-स पूर्वेषामपि गुरुः कालेनानवच्छेदादिति । स ईश्वरः पूर्वेषां ब्रह्मादीनामपि गुरुः पिता । कालेनानवच्छिन्नत्वादित्यर्थः । इह नास्तीति प्रतीतिविषयोऽत्यन्ताभावो देशतः परिच्छेदः । पूर्वं नासीदग्रे न भविष्यतीति प्रतीतिविषयौ प्रागभावध्वंसौ कालतः परिच्छेदः । अधुना नास्तीति त्वत्यन्ताभाव एव । देशे वृत्तौ कालस्य काले वृत्तौ देशस्य चावच्छेदकत्वनियमादिदानीं गोष्ठे गौर्न मन्दुरायामिति प्रतीतेरिहाधुनेत्यनयोरेकस्याधिकरणत्वेनान्यस्यावच्छेदकत्वेनोल्लेखाय प्रयोग इति ग्रन्थान्तरेषु विस्तरः । ईदृशपरिच्छेदाभावो नाम तत्प्रतियोगित्वाभावः प्रतियोगित्वसम्बन्धेन तयोरभावो वा । तद्वतीत्यर्थः । तदुक्तं सौरसंहितायाम्-- 'पुमानाकाशवद्व्यापी स्वातिरिक्त मृषा यतः । देशतः कालतश्चापि नन्तो वस्तुतः स्मृतः॥ इति । अनन्तशब्दस्य परिच्छेदाभाववानित्यर्थः । नन्वत्र वस्तुतः परिच्छेदाभावोऽपि स्मर्यते। अस्ति हि अयमयं नेति प्रतीतिविषयोऽन्योन्याभावो नाम वस्तुत: परिच्छेदः । तत्प्रतियोगित्वाभाव: किमिति नोक्त इति चेत् । तस्य वादिविप्रतिपत्तिविषयत्वेन बहुभिर्नामभिः समर्थयिष्यमाणत्वेन पृथङनिर्देश्यमाणत्वादिति गृहाण । तदेवाह सर्वगा । सर्वं वस्तुमात्रं गच्छत्यभेदेन प्राप्नोतीति सर्वगा । 'अन्तात्यन्ताध्वेत्यादिना डः । तदुक्तं वराहपुराणे त्रिमूर्तिषु सृष्टिनामिकां श्वेतपर्वते तपश्चरन्तीं प्रति ब्रह्मणा वरो वियतामित्युक्ते देव्या वचनम् 'भगवनेकदेशेऽहं नोत्सहे स्थातुमजसा । अतोऽर्थ त्वां वरं याचे सर्वगत्वमभीप्सती ॥ एवमुक्तस्तदा ब्रह्मा सृष्ट्यै देव्यै प्रजापतिः। उवाच सर्वरूपेत्वं सर्वगासि भविष्यसि ॥ इति । अत्र सर्वगत्वविवरणरूपस्य सर्वरूपे इति सम्बोधनस्य सर्वाभिन्ने इत्यर्थकत्वात्परिकराङ्करालङ्कारः । सर्वाभिन्नत्वं च सिद्धमेवेत्यसीत्युक्तम् । अत एव साध्यत्व देशकालाभ्यां न परिच्छिन्ना । अपरिच्छिन्नायै इति ॥ सर्वजगत्प्रकाश्यत्वेन गच्छतीति सा । सर्वगायै इति ॥ सर्वान् ब्रह्मादीनपि मोहयतीति सा । मोहिन्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy