SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 ललितासहस्रनामस्तोत्रम् ददातीत्येवमेव व्याख्यातं साम्प्रदायिकैः । वृद्धा जरठा । 'त्वं जीणा दण्डेन वञ्चसीति श्रुतेः । वञ्चसि गच्छसीत्यर्थः । सर्वज्येष्ठत्वाज्जगद्रूपेणाभिवृद्धत्वाद्वा वृद्धा । वर्धयति जगदिति वा णिजन्तात्कर्तरि क्तः । ब्रह्मणा चैतन्येन सह आत्मनां जीवानामैक्यमेव स्वं निजं रूपमस्या: । यद्वा ब्रह्मात्मनो: शिवजीवयोरैक्यमेव स्वं सर्वस्वं प्रतिपाद्यं यस्य स हंसमन्त्रो रूपमस्या इति । तदुक्तं स्कान्दे यज्ञवैभवखण्डे 'अथवा जीवमन्त्रोऽयं जीवात्मप्रतिपादकः । अहंशब्दस्य रूढत्वाल्लोके जीवात्मवस्तुनि ॥ शक्तिमन्त्रः सकाराख्यः परमेश्वरवाचकः । प्रकृतार्थे प्रसिद्धत्वात्प्रसिद्धः परमेश्वरः ॥ महदाद्यणुपर्यन्तं जगत्सर्वं चराचरम् । जायते वर्तते चैव लीयते परमेश्वरे ॥ संसारित्वेन भातोऽहं स एव परमेश्वरः । सोऽहमेव न सन्देहः स्वानुभूतिप्रमाणतः॥ इति । एतेन त्रिशत्यां हंसमन्त्रार्थरूपिणीति नाम व्याख्यातम् | बृहती ब्राह्मणी ब्राह्मी ब्रह्मान्दा बलिप्रिया ॥ १८३ ॥ महतो महीयत्वाद्ब्रहती । षट्त्रिंशदक्षरच्छन्दोविशेषरूपा वा । न च 'गायत्री छन्दसामसीति कौर्मवचनविरोधः । उभयात्मत्वाङ्गीकारे तदभावात् । अत एव 'बृहत्साम तथा साम्ना मिति भगवतो वासुदेवस्य विश्वरूपवर्णने गीतावचनस्य भगवत्या विश्वरूपवर्णनार्थेन 'ज्येष्ठ साम च सामस्विति कौर्मवचनेन न विरोधः । तलवकारिणां शाखायामुदुत्यं चित्रमित्यनयोर्ऋचोर्गीयमानं साम ज्येष्ठसामेत्युज्ज्वलायां हरदत्तोक्तेः । बृहत्साम तु सत्त्वं नश्चित्रेत्यस्यामृचि गीयमानं प्रसिद्धमेव । बृहज्ज्येष्ठशब्दयोः पर्यायत्वसम्भवाच्च । तेन ज्येष्ठसामरूपेति वा बृहत्सामरूपेति वा व्याख्या । 'ब्राह्मणी फञ्जिका स्पृक्का द्विजपत्नीषु विश्रुतेति विश्वकोशादौषधिविशेषरूपा द्विजस्त्रीमात्ररूपा वा संविद्विशेषरूपा वा । उक्तं च समयाचारस्मृतौ-'ब्राह्मणी श्वेतपुष्पाढ्या संवित्सा देवतात्मिकेति । अथवा शिवस्य ब्राह्मणत्वजातिमत्त्वाद्ब्राह्मणी । तथा च छन्दोग्ये श्रूयते-'विरूपाक्षोऽसि दन्तार्चि'रिति शिवं प्रकृत्य 'त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणो ब्राह्मणमुपधावत्युप त्वाधावामी ति पराशर-आदित्य-कौर्म-वासिष्ठ-लैंङ्गेषु स्मर्यते । 'ब्राह्मणो भगवान्साम्बो ब्राह्मणानां हि दैवतम् । विशेषाद् ब्रह्मणो रुद्रमीशानं शरणं व्रजेत् ॥' बृहती महीयसी । बृहत्य इति ॥ ब्राह्मणस्य शिवस्य स्त्री । ब्राह्मण्यै इति ॥ ब्राह्मी ब्रह्मशक्तिरूपा । ब्राह्मयै इति ॥ ब्रह्मण आनन्दो यस्याः सा । आनन्दायै इति ॥ बलि: पूजोपहारादि: प्रियो यस्याः सा | प्रियायै इति ॥ १८३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy