SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 231 इति । विष्णुभागवतेऽपि-'न मे गर्भमिमं ब्रह्मन्नित्यादिना शिवकोपाद्विभ्यत्यादित्या तस्य ब्राह्मणत्वं व्यक्तीकृतमिति तु शिवतत्त्वविवेके द्रष्टव्यम्। अविद्यातिरिक्तजडजातिसद्भावे मानाभाव इत्यत आह ब्राह्मी । 'ब्राह्मो जाताविति निपातनात्साधुः । वागात्मिका वा । ब्रह्मैवानन्दो यस्याः सगुणायाः । मत्वर्थीयाच्प्रत्ययेन ब्रह्मानन्दवती वा । बलिनो विद्यानिराससमर्थाः कामादिशत्रुजेतारः प्रिया दयापात्रं यस्याः । बलिनामको राजा प्रियो यस्य वामनस्य तदभिन्ना वा । पूजोपहाराः प्रिया यस्या वा ॥ १८३ ॥ भाषारूपा बृहत्सेना भावाभावविवर्जिता। संस्कृतप्राकृतादिभाषा रूपं यस्याः । भाषाभिर्निरूप्यत इति वा । तदुक्तम् 'संस्कृतेनैव केप्याहुः केचिन्म्लेच्छादिभाषया। साधारण्येन केऽपि त्वां प्राकृतेनैव केचन ॥ इति । बृहती अपारा सेना चतुरङ्गबलं यस्याः । बृहत्सेनाख्यराजविशेषरूपा वा । भावा द्रव्यगुणादयोऽभावा: प्रागभावादयस्तैरुभयैरपि विवर्जिता | ननूभयेषामभावस्याप्यभावत्वेन तद्वत्त्वे कथमभावविवर्जितत्वम् । किञ्च प्रागभावध्वंसात्यन्ताभावादयोऽपि द्रव्यगुणादिप्रतियोगिका एव वक्तव्याः । प्रकारान्तरायोगात् । ततश्च द्रव्याभावाभावे द्रव्यत्वं द्रव्याभावे च द्रव्याभावत्वमेवापद्यत इति कथं भावाभावविवर्जितत्वमिति चेत् । न । व्यासपादैरेव परिहृतत्वात् । तदुक्तं स्कान्दे यज्ञवैभवखण्डे 'अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः । भावस्यैव ह्यभावत्वं नाशो भावस्य भावता ॥ भावाभावस्वरूपाभ्यामन्य एव हि कल्पितः। अधिष्ठानस्य नाशो न सत्यत्वादेव सर्वदा ॥ इति । अधिष्ठानसमसत्ताकपदार्थप्रतियोगिकाभावस्य तदभावस्य चाधिष्ठानाद्भेदेन तत्र वृत्तिता । अधिष्ठानविषमसत्ताकस्याभावस्त्वधिष्ठानस्वरूप एव न भिन्नः । अधिष्ठानं तु सत्यत्वादेव न नश्यतीति समुदायार्थः । सुखाराध्या शुभकरी शोभना सुलभागतिः ॥ १८४ ॥ सुखेनोपवासादिरूपकायक्लेशं ध्येयस्वरूपनियमनिर्बन्धादिकं चान्तरेणाप्याराध्या । तथा च कौर्मे हिमवन्तंप्रति भगवत्या वचनम्-'अशक्तो यदि मां ध्यातुमैश्वरं रूपमव्यय' संस्कृतादिभाषाः रूपं यस्याः सा । रूपायै इति ॥ बृहती सेना चतुरङ्गं बलं यस्याः सा । सेनायै इति ॥ भावाभावाभ्यां सदसद्भयां विशेषेण वर्जिता । वर्जितायै इति ॥ सुखेन कायाक्लेशराहित्येन अ[1]राध्या । आराध्यायै इति ॥ भक्तानां शुभं करोतीति सा । कर्यै इति ॥ मोक्षादिपुरुषार्थरूपत्वाच्छोभमाना । सुखोपायत्वात्सुलभा । प्राप्तव्यस्थानरूपत्वाद्गतिः । पदत्रयात्मकमेकं नाम शोभनायै सुलभायै गत्यै इति ॥ १८४ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy