________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
227 चितवृत्तिकत्वेन निरर्गलत्वमभिप्रेत्य वाग्देवताभिः स्त्रीलिङ्गमेव प्रयुज्यते नियमाद्दृष्टानुसरणाय तु तत्र तत्र लिङ्गानुशासनानुगुण्यमस्माभिः प्रदर्श्यते न पुनरपशब्दत्वनिरासायेति दिक् । शोभना प्रतिष्ठा जगतोऽधिष्ठानं सुप्रतिष्ठाख्यविंशत्यक्षरछन्दोविशेषरूपा वा । सद्ब्रह्मा । असत्सद्भिन्नं जगत् । अनिर्वचनीयस्य जगतः सदसद्विलक्षणत्वेऽपि सद्विलक्षणत्वमात्रेणासत्पदेन ग्रहणम् । 'असद्वा इदमग्र आसीत्कथमसतः सज्जायते'त्यादिश्रुतिष्वन्यतरवैलक्षण्येनैव प्रयोगदर्शनात् । तयोः रूपे धारयतीति तथा | अथवा सद्व्यवहारिकं सत्यं पारमार्थिकं वा असत्तुच्छं ते एव रूपे विषयौ धारयति भासयति । सदसद्विषयकज्ञानद्वयस्वरूपेत्यर्थः । सन्मात्रविषयकचरमवृत्तिवदसन्मात्रविषयिकाया अपि वृत्तेर्विकल्पाख्यायाः सत्त्वात् । तथा च पातञ्जलसूत्रम्-'शब्दामात्रानुपाती वस्तुशून्यो विकल्प' इति । गौतमसूत्रमपि- 'बुद्धिसिद्धं तदस'दिति । यद्वा । भावाभावपरौ सदसच्छब्दौ । तौ च योग्यतया सत्यत्वादबाध्यत्वादिरूपौ ग्राह्यौ । सत्यत्वादेर्धर्मिणोऽपृथक्त्वात् । अबाध्यत्वादेरभावरूपधर्मस्याधिकरणस्वरूपत्वात् । भावाभावमात्रस्याधिष्ठानमिति वा । तदुक्तं स्कान्दे यज्ञवैभवखण्डे
'यद्यदस्तितया भाति यद्यन्नास्तितयापि च ।
तत्तत्सर्व महादेवमायया परिकल्पितम् ॥ इति ॥ १८१॥
अष्टमूर्तिरजा जेत्री लोकयात्राविधायिनी । मत्स्यपुराणे
'लक्ष्मीर्मेधा धरा पुष्टिौरी तुष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टाभिर्मा सरस्वति ॥ इति मन्त्रलिङ्गगम्या अष्टौ मूर्तयो यस्याः । यद्वा योगशास्त्रे
'गुणभेदादात्ममूर्तिरष्टधा परिकीर्तिता । जीवात्मा चान्तरात्मा च परमात्मा च निर्मलः ॥ शुद्धात्मा ज्ञानरूपात्मा महात्मा सप्तमः स्मृतः ।
अष्टमस्तेषु भूतात्मेत्यष्टात्मानः प्रकीर्तिता ॥ इति । पञ्चमहाभूतानि सूर्याचन्द्रमसौ जीवात्मस्वर्गदीक्षितानामन्यतम एक इत्यष्टसंख्या मूर्तयो यस्याः । 'भूतानि पुष्पवन्तौ स्वरिति देव्यष्टमूर्तय' इति शक्तिरहस्यात् । विष्णुपुराणेऽपि प्रथमेंऽशे
'सूर्यो जलं मही वह्निर्वायुराकाश एव च ।
दीक्षितो ब्राह्मणः सोम इत्यष्टौ मूर्तयो मताः ॥ अष्टौ मूर्तयो पृथिव्यादिपञ्चभूतानां सूर्यचन्द्रयज्वनां यस्याः सा । मूत्यें इति ॥ अजाया अविद्याया जैत्री नाशिका । जैत्र्यै इति । लोकानां भूरीदाना यात्रा गतिः व्यवहरणं ता विधत्ते इति सा । विधायिन्यै इति ॥
For Private and Personal Use Only