________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् ।
223 पारमार्थिकभाववत्त्वादृश्यरहिता । निर्विषया संविद्वा । विशेषेण जानातीति विज्ञात्री । 'विज्ञातारमरे केन विजानीयादिति श्रुतेः । वेद्यस्य पदार्थान्तरस्यानवशेषेण सर्वज्ञत्वाद्वेद्यवर्जिता । वेद्यस्य पारमार्थिकाभाववती वा ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १८० ॥ योग एकत्वभावना तद्वत्त्वात्तत्प्रदत्वात्तद्योग्यत्वाच्च योगिनी योगदा योग्या च । 'योगाद्यच्चेति यत्प्रत्ययः । तदुक्तं विष्णुपुराणे
'ज्ञानेन्द्रियाणि सर्वाणि निगृह्य मनसा सह ।
एकत्वभावनायोगः क्षेत्रज्ञपरमात्मनोः॥ इति । 'तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितमिति गीतासु । 'योगश्चित्तवृत्तिनिरोध' इति पातञ्जलसूत्रं च । स च मन्त्रो लयो हठो राजेति चतुर्विधः । राजयोगोऽपि सांख्यतारकामनस्कभेदात्त्रिविधः । तत्तल्लक्षणानि तु विस्तरभयान्नोच्यन्ते । यद्वा । मङ्गलादिसंकटान्ता अष्टौ योगिन्यः षड्विंशतिवर्षेः पुनःपुनः परिवर्तमाना ज्योतिःशास्त्रे, डाकिन्यादयश्च सप्त मन्त्रशास्त्रे प्रसिद्धास्तद्रूपा । अथवा योगो विषयसङ्गो भोग इति यावत् । तेन भोक्तृभोगप्रदभोग्यत्रितयरूपेति नामत्रितयार्थः । तदुक्तं श्वेताश्वतरोपनिषदि-'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्व प्रोक्तं त्रिविधं ब्रह्मेतदिति । अत्रेदं बोध्यम् । माया प्रधानं स्वतन्त्रमिति सांख्याः । शिवस्य सा शक्तिरेवेति वेदान्तिनः । शक्तिरित्यनेन परतन्त्रतोच्यत इति विवरणाचार्याः । सा त्रिगुणा । गुणाश्च परस्पराभिभावकाः।
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ इति गीतोक्तेः । तेन सा त्रिविधा पर्यवस्यति । रजस्तमसोरत्यन्ताभिभवाद्विशुद्धसत्त्वात्मकैका । ईषदुद्भूतरजस्तमोभ्यां मलिनसत्त्वा द्वितीया । अत्यन्ताभिभूतरजःसत्त्वाभ्यामसत्प्राया केवलतमोमयी तृतीयेति । तास्वाद्यावच्छिन्ना चिदीश्वरनाम्नी भोगप्रदा योगदेत्युच्यते । द्वितीयावच्छिन्ना जीवनाम्नी भोक्त्री योगिनी । तृतीयावच्छिन्ना जडवस्तुनाम्नी भोग्या योग्येत्युच्यत इति विवेकः । योगः
___ योगः शिवसम्बन्धः तद्वती । योगिन्यै इति ॥ भक्तेभ्यो योगं चित्तनिरोधात्मकं ददातीति सा । योगदायै इति ॥ योग्या योगसाध्या । योग्यायै इति || योगिनां योगेन आनन्दो यस्याः सम्बन्धी । आनन्दायै इति ॥ युगस्य कार्यकारणाद्यात्मकस्य युगलस्य धरा । धरायै इति ॥ १८० ॥
For Private and Personal Use Only