________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
221 देशत: परिच्छेदो ह्यत्यन्ताभाव एव । कालतस्तु ध्वंसप्रागभावौ । वस्तुतस्त्वन्योन्या भाव इति स्थिते: । ज्ञानं कैवल्यप्रदत्वेनाभिमतं ददातीति ज्ञानदा । तथा चोक्तं तलवकारोपनिषदि- 'तस्मिन्नाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ब्रह्मेति होवाचे'त्यादि । स्कान्देऽपि
'ईदृशी परमा विद्या शाङ्करी भवनाशिनी ।
प्रसादादेव जन्तूनां शक्तरेव हि जायते ॥ इति । सूतसंहितायामपि
'विद्यारूपा या शिवा वेदवेद्या सत्यानन्दानन्तसंवित्स्वरूपा ।
तस्या वाचः सर्वलोकैकमातुर्भक्त्ययैव स्यादम्बिकायाः प्रसादात् ॥ इति । ज्ञानं ददाति खण्डयतीति वा । 'ज्ञानं बन्ध' इति तु शिवसूत्रे प्रथमोन्मेषे सूत्रमेकं तत्र त्वकारस्य प्रश्लेषोऽप्यस्तीत्युक्तम् । 'चैतन्यमात्मेति पूर्वसूत्रेण संहितापाठे तथा सम्भवात् । तृतीयोन्मेषेऽपि तादृशं सूत्रमपरं तत्र तु न प्रश्लेष: सम्भाव्यते । 'आत्मा चित्त'मिति पूर्वसूत्रात् । तच्च व्याख्यातं वार्तिक
'अन्तःसुखादिसेवधव्यवसायादिवृत्तिमत् । बहिस्तद्योग्यनीलादिदेहादिविषयोन्मुखम् ॥ भेदाभासात्मकं चास्य ज्ञानं बन्धोऽनुरूपिणः ।
तत्प्राशितत्वादेवासावणुः संसरति ध्रुवम् ॥ इति । तदिदं संवित्त्वापादकं ज्ञानं नाशयतीत्यर्थः । अत एव द्वितीयोन्मेषे सूत्रान्तरं 'ज्ञानमन मिति | वार्तिकं च
'ज्ञानं बन्ध इति प्रोक्तं यत्प्राक्तत्परयोगिनः ।
अनात्मन्यात्मताज्ञप्तिरन्नं ग्रस्यत इत्यतः॥ इति । ज्ञानमेव विग्रह: शरीरं यस्याः सर्वस्य जगतो ज्ञानात्मकत्वात् । तदुक्तं विष्णुपुराणे द्वितीयेऽशे
'ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते । ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥
विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ इति । ज्ञानस्य विग्रहो विस्तारो यस्याः सकाशादिति वा ॥ १७८ ॥
सर्ववेदान्तसेवद्या सत्यानन्दस्वरूपिणी । सर्वेदान्तैरुपनिषत्समूहै: समयग्वेद्या | उक्तञ्च वाराहे--
'एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा ज्ञानात्मिका शक्तिः सर्ववेदान्तगामिनी ॥
सर्वैवेदान्तैरुपनिषद्भागः सम्यग्वेद्या । वेद्यायै इति ॥ सत्यात्मकानन्दस्वरूपमस्याः । रूपिण्यै इति ॥
For Private and Personal Use Only