________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
220
ललितासहस्रनामस्तोत्रम् इति । इयं च विनायकपीठाधिष्ठात्री 'उमादेवी विनायके' इति पानात् । 'उमा सिन्धुवने नाम्ने त्यपि पान एव स्मर्यते । षड्वार्षिककन्यारूपा वा 'उमा षड्वार्षिकी मतेति कन्याप्रकरणे धौम्यवचनात् । शैलेन्द्रस्य पर्वतराजस्य हिमवतस्तनया पुत्री । 'जाता शैलेन्द्रगेहे सा शैलराजसुता तत' इति देवीपुराणे निर्वचनम् । गौरवर्णत्वाद्गौरी । 'गौरी गौराङ्गदेहत्वादिति महावासिष्ठात् । 'षिद्गौरादिभ्यश्चेति ङीष् । 'वरुणस्य प्रिया गौरीति पाये । 'नदीभेदेऽपि गौरी स्याद्दशाब्दायां च योषितीति कोशे च । तेन तत्तत्स्वरूपेति वा ।
देवीपुराणे तु
'योगाग्निना तु या दग्धा पुनर्जाता हिमालयात् ।
शङ्खकुन्देन्दुवर्णा चेत्यतो गौरीति सा स्मृता ॥ इत्युक्तम् । इयञ्च कान्यकुब्जपीठाधिष्ठात्री । 'कान्यकुब्जे तथा गौरीति पाद्यात् । गन्धर्वैर्विश्वावसुप्रभृतिभिः सेविता | गन्धर्वैरश्वैर्वा सेविताऽश्वारूढाख्या देवी वा । दिव्यगानमेव वा गन्धर्वः ॥ १७७ ॥
विश्वगर्भा स्वर्णगर्भावरदा वागधीश्वरी । विश्वं प्रपञ्चजातं गर्भे यस्याः । स्वर्णं हिरण्यं गर्भे यस्याः । स्वर्णस्य गर्भभवा वा | तदुक्तं वायुपुराणे
'हिरण्यमस्या गर्भोऽभूद्धिरण्यस्यापि गर्भजः ।
यस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते ॥ इति । यद्वा अर्णानां वर्णानां मातृकाणां गर्भः शोभनो यया सा | मातृकाप्रतिपाद्येति यावत् । बह्वर्थगर्भितः शब्द इति प्रयोगात् । स्वर्णाः शोभनार्णा मन्त्रा गर्भे यस्या इति वा | अवरदेति चतुरक्षरं नाम । अवराननार्यानसुरान् द्यति खण्डयतीति तथा । अवन्तीत्यवा: कान्तिमन्तो रदा दन्ता यस्या वा । कान्त्यर्थकादवतेः पचाद्यच् । वाचामधीश्वरी स्वामिनी ।
ध्यानगम्यापरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १७८ ॥ ध्यानेन विभावनेन गम्या ज्ञेया । 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढा मिति श्रुतेः। अभावप्रतियोगित्वं परिच्छेद्यत्वं तदभावादपरिच्छेद्या ।
विश्वं तद्गर्भे यस्याः सा | गर्भायै इति ॥ शोभना अर्णा मातृकारूपार्णा यस्या: सा । गर्भायै इति ॥ अः विष्णुः तस्मै वरं ददातीति सा । अवरदायै इति ॥ वाचां अधीश्वरी स्वमिनी । ईश्वर्यै इति ॥ ___ध्यानेन भावनेन गम्या ज्ञेया । गम्यायै इति ॥ न देशकालाकारैः परिच्छेतुं योग्या । अपरिच्छेद्यायै इति ॥ भक्तानां ज्ञानं स्वात्मविषयकं ददातीति सा । ज्ञानदायै इति ॥ ज्ञानमेव विग्रहः शरीरं यस्याः सा । विग्रहायै इति ॥ १७८ ॥
For Private and Personal Use Only