SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 219 सौभाग्यभास्कर-बालातपासहितम् इति । ब्रह्मपुराणे 'अपर्णा तु निराहारा तां माता प्रत्यभाषत । उमा इति निषेधन्ती उमेत्येव तदाभवत् ॥ सा तथोक्त्वा तया मात्रा देवी दुश्वरचारिणी । तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ इति । पद्मपुराणे पुष्करखण्डे 'ततोऽन्तरिक्षाहिव्या वागब्रवीद्धवनत्रये । उमेति तु त्वया मेने यदुक्तं तनयां प्रति ॥ उमेति नाम तेनास्या भुवनेषु भविष्यति ।' इति । उः उत्तमा च सा मा चित्तवृत्तिश्चेति वा । तदुक्तं सूतसंहितायाम् 'परानुभूतिं भवपाशनाशिनी सदाशिवस्याप्यतिशोभनाढ्याम् । उमाभिधामुत्तमचित्तवृत्तिं नमामि नानाविधलोकवैभवाम् ॥ इति । अथवा प्रणवघटकैरकारोकारमकारैर्विष्णुशिवब्रह्मवाचकैर्घटितत्वात्रिमूर्त्यात्मिकेत्यादयः प्रणवार्था इह जोज्याः । अत एवास्य पदस्य देवीप्रणव इति संज्ञेति रहस्यविदः । उक्तञ्च च लैङ्गे भगवतीं प्रति परशिवेनैव 'अकारोकारमकारा मदीये प्रणवे स्थिताः। उकारं च मकारं च अकारं च क्रमेरितम् ॥ त्वदीयं प्रणवं विद्धि त्रिमानं प्लुतमुत्तमम् । इति । महावासिष्ठेऽपि-'ओंकारसारशक्तित्वादुमेति परकीर्तिति । तत्रैव 'सुप्तानामथ बुद्धीनाममात्रोच्चारणावृदि । नित्यं त्रैलोक्यभूतानामुमेतीन्दुकलोच्यते ॥ इति । सर्वप्राणिनां स्वापे बोधे वा हृद्यनाहतनादात्मना अकारादिमात्रात्रयशून्यस्य प्रणवनादभागस्य शब्दब्रह्मात्मकस्य नित्यमुच्चारणाद्धृदम्बुजच्छिद्राकाशदहराकाशशिवस्य शिरसीन्दुकला बिन्दुरूपेण स्थितेति तट्टीकायाम् । वायवीयसंहितायामपि 'ओंकाराक्षर ब्रह्मेत्युपक्रम्य तदवयवानुक्त्वा 'अर्धमात्रात्मको नादः श्रूयते लिङ्गमूर्धनी'त्युक्तम् । हंसोपनिषद्यपि हृदयाब्जदलभेदेन हंसावस्थाने मतिभेदानुक्त्वा लिङ्गे सुषुप्तिः पद्यत्यागे तुरीया हंसस्य लिङ्गमूर्धस्थाना देवी लये सति तुर्यातीतावस्थेत्युक्तम् । यद्वा 'इच्छाशक्तिरुमाकुमारी ति शिवसूत्रे योगिनामिच्छाया उमेति संज्ञोक्ता तद्रूपा वा । उक्तञ्च भगवता कृष्णदासेन 'परभैरवतामुक्तां असमानस्य शाश्वतीम् । तस्यैव योगिनो येच्छाशक्तिस्तां निगदन्त्युमाम् ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy