SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 सौभाग्यभास्कर-बालातपासहितम् ___217 इति । गौडपादीयं सूत्रमपि- 'शाम्भवीविद्या श्यामा' इति । देवीभागवतेऽपि शाम्भवी शुक्लरूपा च श्रीविद्या रक्तरूपिका । श्यामला श्यामरूपा स्यादित्येता गुणशक्तयः॥ इति । त्रिदशानां देवानां तिसृणां वा दशानामवस्थानां त्रियुक्तदशानां त्रयोदशानां विश्वेषां देवानां वा त्रिगुणितदशानां त्रिंशता लक्षणया त्रयस्त्रिंशद्गणानां चेश्वरी स्वामिनी ॥ १७६ ॥ यक्षरीत्रयाणामक्षराणां वाक्कामशक्तिबीजात्मकानां समाहारः । उक्तञ्च वामकेश्वरतन्त्रे 'वागीश्वरी ज्ञानशक्तिर्वाग्भवे मोक्षरूपिणी । कामराजे क्रियाशक्तिः कामेशी कामरूपिणी ॥ शक्तिबीजे पराशक्तिरिच्छेव शिवरूपिणी । एवं देवी अक्षरी तु महात्रिपुरसुन्दरी ॥ इति । शुद्धविद्या कुमारीमन्त्ररूपा वा । तथा च गौडपादीये-'त्यक्षरी शुद्धविद्या कुमारी चेति । हृदयरूपा सत्यरूपा वा । तदेतत् त्र्यक्षरं हृदय मिति । तदेतत् त्र्यक्षरं सत्य मिति च बृहदारण्यकात् । आईपल्लवितयुगाक्षरमासाक्षरनित्याक्षरसमाहारो वा । अथ परिभाषायां पञ्चत्रिंशन्नामानि विभजते मन्दिरचरतां विभवः शैवो मार्गो महान् हितोऽनुगुणः। गौणीलीलार्दीभावार्धविभेदा भवेदेव ॥ २४॥ स्पष्टार्थः ॥ १२४॥ दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता। दिवि भवा दिव्या देवादयश्चेतनाचेतनात्मकपदार्थसमूहाः तेषां गन्धैः सम्बन्धैराढ्या परिपूर्णा । न तु राजादिरिव भौमैः पदार्थैः परिवृतेति यावत् । दिव्यगन्धो हरिचन्दनादिपरिमलो वा तेनाढ्या 'गन्धद्वारां दुराधर्षामिति श्रुतेः । अथवा श्रोत्राकाशयोः सम्बन्धे 'संयमादिव्य'मिति योगसूत्रे श्रवणेन्द्रियाकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं भवति तेन दिव्यशब्दश्रवणं भवतीत्युक्तम् । तुल्यन्यायेन तत्सर्वेन्द्रियाणामुपलक्षणम् । तेन दिव्यगन्धा आढ्याः सम्पन्ना यया त्र्यक्षरी अक्षरत्रयरूपा । अक्षय इति ॥ दिव्यो यो गन्धः सुगन्धः तेनाढ्या सम्पन्ना । सिन्दूरस्य यः तिलकः तेनाञ्चिता युता । अञ्चितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy