________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
216
ललितासहस्रनामस्तोत्रम् ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः । एकीभूय ततस्ते तु ब्रह्मविष्णुमहेश्वराः ॥ परस्परं सूक्ष्मदृष्ट्या वीक्षांचकुर्मुदान्विताः । ततस्तेषां त्रिधा दृष्टिभूता वै समजायत ॥
तस्यां दृष्ट्यां समुत्पन्न कुमारी दिव्यरूपिणी । इत्यादिना तां वर्णयित्वा
'अथ तां वीक्ष्ण कन्यां तु ब्रह्मविष्णुमहेश्वराः ।
ऊचुः का त्वमसि ब्रूहि किंवा कार्य शुचिस्मिते ॥ इति प्रश्ने
त्रिवर्णा च कुमारी सा कृष्णा शुक्ला च पीतिका । उवाच भगवदृष्टेर्येन जातास्मि सत्तमाः ॥
किं मां न वेत्थ सुश्रोणी स्वशक्तिं परमेश्वरीम् ।' इत्युत्तरिते
'ततो ब्रह्मादयस्तस्यै त्रयस्तुष्टा परं ददुः । नाम्नासि त्रिकला देवि पाहि विश्वं च सर्वदा ॥ अपराण्यपि नामानि भविष्यन्ति तवानधे ।
गुणोत्थानि महाभागे सर्वसिद्धिकराणि च ॥ इत्याद्युक्त्वोक्तम्
'अन्यच्च कारणं देवि यद्वक्ष्यामि शृणुष्व तत् । सितरक्तकृष्णवर्गस्त्रिवर्णासि वरानने ॥ मूर्तित्रयं त्रिभिर्वर्णैः कुरु देवि स्वविग्रहे। एवमुक्ता तदा देवैरकरोत् त्रिविधां तनुम् ॥
सितां रक्तां तथा कृष्णां त्रिमूर्तित्वं जगाम ह।' इत्यादि उक्त्वा ब्राह्मीवैष्णवीरौद्रीणां श्वेतमन्दरनीलपर्वतेषु तपश्चर्यादिकमुक्तम् । अन्यत्रापि
'एषा त्रिमूर्तिरुद्दिष्टा नयसिद्धान्तगामिनी । एषा श्वेता परा शक्तिः सात्त्विकी ब्रह्मसंस्थितिः ॥ एषैव रक्ता रजसि वैष्णवी परिकीर्तिता । एषैव कृष्णा तमसि रौद्री देवी प्रकीर्तिता ॥ परमात्मा यथा देव एक एव त्रिधा स्थितः । प्रयोजनवशाच्छक्तिरेकैव विविधा भवेत् ॥
For Private and Personal Use Only