________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
214
ललितासहस्रनामस्तोत्रम् इति विश्वः । यद्वा पूर्वोक्तकामबीजे केवलत्वं ककारलकारात्मकव्यञ्जनराहित्यम् | तेन केवलतुर्यस्वरूपा कामकलेत्यर्थः । 'यदीं शृणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्था मिति श्रुतेः । ईकारमात्रश्रवणं तु लकारककारराहित्येन श्रवणम् अतस्तद्वान् । सुकृतस्य सत्कर्मणः पन्थानमुत्तमलोकान्नायाति किन्तु निर्गुणज्ञानस्यैव लोकं प्राप्नोति । कामबीजमात्रेण त्रिवर्ग: कामकलामात्रेण तु मोक्ष इति पर्यवसितोऽर्थः । तमेवाह नामद्वयेन गुहां प्रविष्टा गुह्या । अतिरहस्यार्था इति यावत् । केवलस्य भावो धर्मिमात्रावशेष: कैवल्यं पञ्चमी मुक्तिस्तदेव पदं ददाति । अथवा कैवल्यं च पदानि च स्थानानि च दातुं शीलमस्याः । कैवल्यशब्देन योगशास्त्रान्तिमसूत्रेण कैवल्यं स्वरूपं 'प्रतिष्ठा चितिशक्ते रित्येतेन प्रतिपादितस्वरूपो मोक्ष उच्यते । 'चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेणावस्थानं कैवल्यमुच्यत' इति भोजराजवृत्तौ । पदशब्देन सालोक्यादिमुक्तिचतुष्टयं तासां स्थानविशेषरूपत्वात् । अत्रेदं बोध्यम् । प्रतीकाधुपासनया सालोक्यम् । अन्तरेण प्रतीकं स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य च रूपतः साम्यं सारूप्यम् । इयमेव साष्टितेत्युच्यते । समानर्धितेत्यर्थः । सगुणं देवतारूपमहंग्रहेणोपास्यदेवतातादात्म्यं प्राप्नोति । तदिदं सायुज्यमूर्ध्वरेतसां स्वाश्रमे युक्तधर्मानुष्ठानवतां सामीप्यम् । 'एतासामेव देवतानां सायुज्यं साटितां समानलोकतामाप्नोतीति तैत्तिरीयश्रुतिरुक्तमुक्तित्रये प्रमाणम् । चतुर्थ्यां तु मण्डूकश्रुतिः
तप:श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्या चरन्तः।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ इति । सूर्यद्वारेणेत्यस्य सूर्योपलक्षितेऽचिरादिमार्गेण गत्वा यत्र सत्यलोके स पुरुषो ब्रह्म वर्तते तत्र यान्तीत्यर्थात् । एताः कर्मफलभूता अनित्याः सातिशया मुक्तयः । अत एव स्थानवाचिना पदपदेनेह निर्दिष्टाः । या. तु ज्ञानफलं निरतिशयानन्दलक्षणं कैवल्याख्या मुक्तिस्तस्यां तु तैत्तिरीयश्रुतिरेव प्रमाणम् । 'य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छति । अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्य लोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोमहिमानौ ब्राह्मणौ विद्वानभिजयति तस्माद् ब्रह्मणो महिमानमाप्नोती'ति । अत्र केवलकर्मणां चन्द्रलोकप्राप्तिः । य एवं विद्वानिति विद्वच्छब्दाभिहितप्रतीकाधुपासनात्रयवतो देवानां महिमानमित्यनेन सालोक्यादित्रयम् । ब्राह्मणो विद्वानित्यनेन ब्रह्मज्ञानवांस्तु एतौ कर्मोपासनप्राप्यौ सूर्यचन्द्रयोर्महिमानौ सातिशयत्वादिदोषवन्तौ
For Private and Personal Use Only