________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
प्रधानपुरुषव्यक्तकालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥ प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥
इति । पावनी पावयित्री आकृतिः श्रीरं चरित्रं वा ज्ञानं वा यस्याः । तथा च
याज्ञवल्क्यस्मृतिः
'भूतात्मनस्तपो विद्ये बुद्धेर्ज्ञानं विशोधनम् । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता 1
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १७५ ॥
213
अनेका अनन्ताः कोटयो ये ब्रह्माण्डास्तेषां जननी जनयित्री । यद्वा अनेककोटयो ब्रह्माण्डा येषां ते तथा । अभिमन्यमानत्वादिरूपः सम्बन्धः षष्ठ्यर्थः । तेषां विराडादीनां जननीं । विकारषोडशान्तर्वर्तिपञ्चीकृतस्थूलभूतकार्यो हि ब्रह्माण्डः । तदभिमानी विराडुच्यते । ब्रह्माण्डान्तर्वर्तिसमष्टिलिङ्गशरीराभिमानी स्वराट् । तदुभयकारणाव्याकृताभिमानी सम्राट् । तदुक्तम्
'प्राधान्येन विराडात्मा ब्रह्माण्डमभिमन्यते ।
स्वराट् स्वरूपमुभयं सम्राडित्यब्रवीच्छुतिः ॥
इति । दिव्यो रमणीयो विग्रहो देहो यस्याः । दिव्यन्तरिक्षे भवो दिव्यो विग्रहो रणो यस्या वा । 'तत्रापि सा निराधारा युयुधे तेन चण्डिके ति मार्कण्डेयपुराणवचनात् । विस्तार: प्रविभागो वा विग्रहपदार्थ: । 'विग्रहः समरे देहे विस्तारः प्रविभागयो रिति मेदिनी ॥ १७५ ॥
क्लींकारी केवला गुह्या कैवल्यपददायिनी ।
कामं बीजं करोतीति वा कामबीजस्वरूपेति वा क्लींकारस्य शिवकामस्य स्त्रीति वा क्लींकारी । निखिलधर्म राहित्येनैकाकित्वात्केवला । 'तद्विमुक्तस्तु केवली 'ति शिवसूत्रप्रसिद्धज्ञानविशेषो वा केवली । कार्त्स्न्ये निर्णीतार्थश्च केवलम् । मत्वर्थीयेऽचि तद्वती तदभिन्ना वा ।
'केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः । निर्णीते केवलं प्रोक्तं केवलः कुहने क्वचित् ॥ '
अनेकानां ब्रह्माण्डकोटीनां जननी । जनन्यै इति ॥ दिव्यः सुन्दरो विग्रहो देहो यस्याः सा । विग्रहायै इति ॥ १७५ ॥
For Private and Personal Use Only
क्लींकारी कामबीजरूपा । कार्यै इति ॥ गुणदोषादिरहितत्वात् केवला । केवलायै इति ॥ गुह्या अतिरहस्यरूपा । गुह्यायै इति ॥ कैवल्यं मोक्षं पदं स्वर्गादिस्थानं च ददातीति सा । दायिन्यै इति ॥