SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 ललितासहस्रनामस्तोत्रम् आदिशक्तिऽरमेयाऽत्मा परमा पावनाकृतिः। सर्वजगतामुत्पादकत्वादादिः कारणभूता च सा शक्तिश्च । मातुमशक्या अमेयां । न विद्यते मेयं यस्या इति वा । यदपेक्षयाऽतिरिक्तं मेयं नास्तीत्यर्थः । तदुक्तं लिङ्गपुराणे 'स्वर्गपाताललोकान्तब्रह्माण्डावरणाष्टके । मेयं सर्वमुमारूपं माता देवो महेश्वरः॥ इति । आत्मशब्देन जीवः परमशब्दोत्तरं चात्मानुषङ्गात्परमात्मा चेति नामद्वयेन कथ्यते । उक्तञ्च लैङ्गे 'विष्णुलिङ्गा यथा तावदग्नौ च बहुधा स्मृताः। जीवाः सर्वे तथा शर्वाः परमात्मा च स स्मृतः ॥ इति । शिवपुराणेऽपि 'आत्मा तस्माष्टमी मूर्तिः शिवस्य परमा तनुः । व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ इति । अस्मिन्पक्षे आत्मने नमः, परमायात्मने नम इति नामद्वयप्रयोगः । नमो भवाय च रुद्राय च नम' इत्यादिमन्त्राणामप्युभयतो नमस्कारत्वपक्षे सकृत्पठितस्यापि नमःशब्दस्य रुद्रशब्दस्य सर्वशब्दोभयशेषत्वेन पुनरावृत्तिवदात्मशब्दस्य वृत्तिः । यद्वा । आत्मशब्देन ब्रह्मैव । 'यच्चाप्नोति यदादत्तेयच्चात्ति विषयानिह । यच्चास्य सततो भावस्तस्मादात्मेति कीर्त्यते ॥ इति वचनात् । आत्मशब्देन शरीरमेवोच्यते । तथा च वासिष्ठलैङ्गे 'गौरीरूपाणि सर्वाणि शरीराणि शरीरिणाम् । शरीरिणस्तथा सर्वे शङ्करांशा व्यवस्थिता ॥ इति । एवं आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिष्विति विश्वप्रकाशोक्तान्यर्थान्तराण्यपि योज्यानि । 'या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिते'त्यादिवचनात् । परं ब्रह्म माति परिच्छिनत्तीति परमा । परस्य शिवस्य मा लक्ष्मीर्वा । यद्वा परब्रह्मणो रूपचतुष्कमस्ति तस्मात्परमोत्कृष्टा । तदुक्तं विष्णुपुराणे 'परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विजाः । व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् ॥ ___आदिः सर्वकारणभूता च सा शक्तिश्च । शक्त्यै इति ॥ न मातुं शक्या । अमेयायै इति ॥ आत्मा जीव: तद्रूपा सा । आत्मने इति ॥ परमा उत्कृष्टा । परमायै इति ॥ पावनी पवित्रकी आकृति मूर्तिर्यस्याः सा । आकृत्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy