________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
211 इति । तत्र त्वमावास्या पञ्चदशस्थाने गणिता पूर्णिमा तु षोडशस्थाने अत्र तु राकैव पञ्चदशीति विशेषः । प्रकृते त्वविशेषाद् वाराहोक्ताः षोडशापि देवता गृह्यन्ते ॥ १७३ ॥
कलात्मिका कलानाथा काव्यालापविमोदिनी ।
अत्र कलाशब्देन वह्नर्दशकलाः सूर्यस्य द्वादशकलाश्चन्द्रस्य षोडशकलाश्चतु:षष्टिसंख्याकत्वादिना प्रसिद्धाः । अन्याश्च कला गृह्यन्ते
'उत्पत्तिर्जागरो बोधो व्यावृत्तिर्मनसः सदा । कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम् ॥
जाग्रत्सर्वगुणैः प्रोक्ता केवलं शक्तिरूपिणी ।' इति । तथा
'मरणं विस्मृतिर्मूर्छा निद्रा च तसमा वृता । सुषुप्तेषु कला ज्ञेयास्ताः सर्वाः श्रीकलात्मिकः ।
तथा
'अभिलाषो भ्रमश्चिन्ता विषयेषु पुनः स्मृति कलाचतुष्टयं देवी स्वप्नवस्था विधीयते ॥ शिवरूपाः शक्तिरूपास्ताः कलास्त्रिपुरात्मिकाः।'
तथा
"वैराग्यं च मुमुक्षुत्वं समाधिविमलं मनः।'
सदसवस्तुनिर्धारस्तुर्यावस्थाः कला इमाः ॥ दूतीयागप्रकरणे षोडश कामकला उक्ताः । अन्तरदूतीप्रकरणे श्रीविद्याया: षोडशकला उक्ताः । एवं बिन्द्वर्धचन्द्ररोधिन्यादीनां पार्थक्येन काश्चन कला: स्वच्छन्दभैरवादावुक्तास्तादृशनिखिलकलास्वरूपेत्यर्थः । एतासां कलानां नाथा स्वामिनी च | चन्द्रमण्डलस्य श्रीचक्रस्वरूपत्वाच्चन्द्ररूपेत्यर्थो वा । काव्यानां वाल्मीक्यादिमहाकविकृतप्रबन्धविशेषाणामष्टादशलक्षणलक्षितानां रूपकभेदभिन्नानामालापेन विशिष्य मोदत इति तथा ।
सचामररमावाणीसव्यदक्षिणसेविता ॥ १७४ ॥ ___ चामराभ्यां सहिते सचामरे तादृशीभ्यां रमावाणीभ्यां लक्ष्मीसरस्वतीभ्यां सव्ये दक्षिणे क्रमेण सेविता दीजिता ॥ १७४ ॥
कलाः अग्न्यादीनां कला, तदात्मिका । आत्मिकायै इति ॥ तासामेव नाथा स्वामिनी । नाथायै इति ॥ काव्यानां कविकृतप्रबन्धानां आलापे त यो विनोदः तद्वती । विनोदिन्यै इति ॥
चामराभ्यां सहित रमावाणीभ्यां लक्ष्मीसरस्वतीभ्यां सव्यदक्षिणभागयोः सेविता । सेवितायै इति ॥ १७४ ॥
For Private and Personal Use Only