SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 सौभाग्यभास्कर-बालातपासहितम् दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १७१ ॥ दक्षस्य कन्या दाक्षायणी । लोहितादित्वात्ष्फः । अश्विन्यादिरूपा वा । 'दाक्षायणी त्वपर्णायां रोहिण्यां तारकासु चेति विश्व : । दर्शपूर्णमासयोरावृत्तिर्दाक्षायणयज्ञपदेनोच्यते तद्रूपा वा । दैत्यानां भण्डासुरादीनां हन्त्री । दक्षो द्विविध:- एकः प्रजापतित्वेन प्रसिद्धः , अन्यो मानुषो राजा तस्यैवावतारविशेषः । उभयोरपि यज्ञं विनाशयितुं शीलमस्याः । ताच्छील्ये णिनिः । शिवकृतेऽपि यज्ञनाशे देव्या निमित्तत्वात्कर्तृत्वव्यपदेशः । तदुक्तं ब्रह्मपुराण-वायुपुराणयोः - 'अभिव्याहृत्य सप्तर्षीन् दक्षं सोऽभ्यशपत्पुनः । भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः। दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ॥ कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे । अहं तत्रापि ते यज्ञं हन्मि देव्याः प्रियेप्सया ॥ इति । यद्यत्रोपान्त्यस्वरोऽकारः पठ्यते तदा विनाशनशब्दाल्ल्युडन्तान्डीप् । इकारपाठे तु णिन्यन्तात् । एवमन्यत्राप्यूह्यम् ॥ १७१ ॥ इति भास्कररायेण कृते सौभाग्यभास्करे । षष्ठेन शतकेनाभूत्सुषुम्णा सप्तमी कला ॥ ६०० ॥ ॥ इति श्रीसौभाग्यभास्कराभिख्ये ललितासहस्रनामभाष्ये षष्ठशतकं नाम सप्तमीकला ॥७॥ दक्षस्यापत्यं स्त्री । दाक्षायण्यै इति ॥ दैत्यानां हननक: । हन्त्र्य इति ॥ दक्षस्य यज्ञो मखः, तं विनाशयतीति सा | विनाशिन्यै इति ॥ १७१ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy