________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
206
ललितासहस्रनामस्तोत्रम् अथ परिभाषायां पञ्चत्रिंशत्पदानि विभजते
भेदभुवि त्र्यंघ्रिभुवो गुणगणजाधं विभेजेर्धम् ।
भर्गो रोपेणैको मूलगुरोर्दण्डमुण्डशिला ॥ अत्रैकपदेनैकादशाक्षरमेकं नामेत्यर्थः ॥ २३ ॥
-रविप्रख्या त्रिकोणान्तरदीपिका । हृदये तावत्सूर्यमण्डलमस्ति तच्च विद्याद्वितीयकूटमित्याशयेनाह- रविप्रख्या । निभप्रख्यशब्दौ सादृश्यपरावपीह तृतीयद्वितीयकूटयोस्तदभेदादभेदपरौ । स्वस्मिन्नेव मादृशः पुरुष इति व्यवहारदर्शनात् । सूर्यसमानकान्तिमतीति वा । मूलाधारपद्मकर्णिकामध्ये त्रिकोणमस्ति । तदन्तरग्निमण्डलम् । तच्च प्रथमकूटस्वरूपं तदेतदाह । त्रिकोणस्यान्तरे मध्ये दीपवद्दीपिका तदभिन्नेत्यर्थः । तदुक्तं तन्त्रराजे
'नित्यानित्योदिते मूलाधारमध्येऽस्ति पावकः । सर्वेषां प्राणिनां तद्वद्धृदये च प्रभाकरः॥ मूर्धनि ब्रह्मरन्ध्राधश्चन्द्रमाश्च व्यवस्थितः ।
तत्त्रयात्मकमेव स्यादाद्या नित्या त्रिखण्डकम् ॥ इति । अथवा पूर्वोक्तं रवितुल्यत्वमुपमानोपमेयनिष्ठयोर्वस्तुतो भिन्नयोरपि धर्मयो: श्लेषभित्तिकाभेदाध्यवसायेनैकीकुर्वन्साधारणधर्म निर्दिशति-त्रिकोणेति । देवीपक्षे तु पूर्वयोजनैव । रविपक्षे यथा । मेरुं प्रदक्षिणीकुर्वन् रविरष्टकोणात्मकस्य मेरोस्त्रीस्त्रीनेव कोणानवभासयति । तथाहि- 'इन्द्रपुरे मध्याह्न सूर्ये स्थिते सौम्ययाम्यपुरयोस्तमयोदयौ । एवं कोणत्रयतया स्थितं पुरत्रयमेव भासयति । ईशाग्निकोणी तु त्रिकोणरेखामध्यपतिताविति तद्भासनमर्थायातम् । ईशे तदानीं तृतीयो यामः । आग्नेये तु प्रथमो यामः । एवं दिक्त्रयं मध्यपतितत्वाद्विदिग्द्वयं च भासयति । अग्निपुरे यदा मध्याह्नेऽस्तस्तद्देशनिर्ऋत्योरस्तमयोदयौ । इन्द्रयमपुरयोस्तृतीयप्रथमयामौ । एवं षट्कोणत्रयतया स्थितं विदिक्त्रयं तद्रेखास्थानापन्नं दिग्द्वयं च भासयति । एवं याम्यादिपुरेषु मध्याह्नकाल ऊह्यम् । तदुक्तं विष्णुपुराणे
'शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् ।
त्रिकोणौ द्वौ विकोणस्थस्त्रीन्कोणान्वे पुरे तथा ॥ इति । स्वावस्थितिकोण एकः । स्वदक्षिणवामकोणौ द्वौ । एवं त्रीन् कोणान् तदन्तरे च तन्मध्यस्थिते स्वदक्षिणवामरेखे चेति पुरपञ्चकं दीपयति प्रकाशयतीति त्रिकोणान्तरदीपिका।
रविरिव प्रकर्षेण स्थानं प्रकाशो यस्याः सा । प्रख्यायै इति ॥ त्रिकोणस्य मूलाधारमध्यस्थितस्य अन्तरे मध्ये दीपिकेव स्थिता । दीपिकायै इति ॥
For Private and Personal Use Only