________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
205 पिप्पल्यादेराकृतिगणत्वान्डोष् । त्रयाणां ब्रह्मादीनामवस्थापीठलोकगुणादीनां वा कूटं समूहो यस्याम् । वाग्भवादिकूटत्रयाभिन्ना वा । कामः परशिव एव कोटिरेकदेशो यस्याः सैव कामकोटिका | शिवशक्तिसामरस्यपरब्रह्मरूपत्वात् ॥ १६९ ॥
कटाक्षकिङ्करीभूतकमलाकोटिसेविता । कटाक्षस्य दृगेकदेशपातस्य किङ्करीभूताभिः कमलानां लक्ष्मीणां कोटिभिः सेविता। यस्मिन्नीषदवलोकनं तं पारेपरार्धं लक्ष्म्यो वृणत इति तात्पर्यम् ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुष्प्रभा ॥ १७० ॥ शिरसि ब्रह्मरन्ध्रे गुरुरूपतया स्थिता । ब्रह्मरन्ध्रस्याधोभागे चन्द्रोऽस्ति स च विद्यातृतीयकूटात्मक इत्याशयेनाह । चन्द्रनिभा भालहृल्लेखा बिन्दुरूपेण तिष्ठतीति भालस्था । तदुपर्यर्धचन्द्ररूपेण तिष्ठतीति द्योतनायाह । इन्द्रधनुष्प्रभा । उक्तञ्च नित्याहृदये
'दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते ।
अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वतः ॥ इति ॥ १७० ॥
हृदयस्थाहृदये ध्येयत्वेन तिष्ठतीति तथा । यद्वा पराबीजं हृदयमित्युच्यते । 'प्रभुहृदयज्ञातुः पदे पदे सुखानि भवन्तीति कल्पसूत्रे प्रयोगात् । परमेश्वरहृदयाख्योपनिषदेव वा हृदयेनोच्यते । तत्रान्तर्यामितया प्रतिपाद्यतया वा तिष्ठति । अथवा हृदयस्य सर्वजगबीजत्वात्तत्र जगद्रूपेण स्थिता । तदुक्तमनुत्तरत्रिंशिकाशास्त्रे
'यथा न्यग्रोधबीजस्थःशक्तिरूपो महाद्रुमः। तथा हृदयबीजस्थं जगदेतच्चराचरम् ॥ इति ।
कटाक्षस्य दृगेकदेशपातस्य किङ्करीभूता: आज्ञाकर्यः ताभिः कमलाकोटिभिः सेविता सदाशिवादयो यस्याः सा । सेवितायै इति ॥
विद्याया वाग्भवादिकूटत्रयं तुरीयकूटं च मूलाधारानाहताज्ञाब्रह्मरन्ध्रेषु क्रमेण अग्निसूर्येन्द्रधनुःपूर्णचन्द्रनिभं भावनीयमिति तन्त्रप्रसिद्धम्, तदेतत्सप्तभिर्नामभिराह । शिरःस्थिता ब्रह्मरन्ध्रे स्थिता । स्थितायै इति ॥ चन्द्रस्य पूर्णचन्द्रस्येव नितरां भा कान्तिर्यस्याः सा । निभायै इति ॥ फा (भा)ले आज्ञाचक्रे तिष्ठतीति सा | फा(भा)लस्थायै इति ॥ इन्द्रधनुरिव प्रभा यस्याः सा | प्रभायै इति ॥ १७० ॥
हृदये अनाहते तिष्ठतीति सा । हृदयस्थायै इति ॥
For Private and Personal Use Only