SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 ललितासहस्रनामस्तोत्रम् आत्मविद्या महाविद्या श्रीविद्या कामसेविता । आत्मज्ञानरूपत्वादात्मविद्या । आत्माष्टाक्षरमन्त्ररूपा वा । अत एव महाविद्या । महती च सा विद्या च । सर्वानर्थनिवारकत्वान्महत्त्वम् । नवदुर्गाविद्याया अपि महाविद्येति संज्ञा तद्रूपा वा । श्रीविद्या पञ्चदशीस्वरूपा । उक्तञ्च विष्णुपुराणे 'यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी। आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च ॥ इति । अत्र व्याख्यातारः । कर्मविद्या विश्वरूपाद्युपासना मन्त्रविद्या ब्रह्मविद्या चेति विद्यापदचतुष्टयार्थः । वार्ता शिल्पशास्त्रायुर्वेदादिः । दण्डनीती राजनीतिरिति । कामो महाकामेशस्तेन सेवितोपासिता । यद्वा । कामोऽनङ्गस्तेन सेविता स्यूता । 'सीवनं सेवनं स्यूति रिति कोशात् । श्रूयते चारुणोपनिषदि- 'पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गलिरावयवत् । सोऽग्रीवः प्रत्युमुञ्चत् । सोऽजिह्वो असश्चत । नैनमृषि विदित्वा नगरं प्रविशेत् । यदि प्रविशेत् मिथो चरित्वा प्रविशेत् । तत्सम्भवस्य व्रतमिति । निर्ऋत्या लक्ष्म्याः पुत्रो वैदेहो विदेहोऽनङ्गो मन्मथः अनङ्गत्वादेवाचेता नेत्राङ्गुलिग्रीवाजिह्वारहितश्च सोऽन्धो मणिं विद्यारत्नमविन्दत् । तत आवयद् असीव्यत् । ततो ग्रीवायां धृतवानास्वादितवांश्च । तेन मन्त्रद्रष्टुत्वादयमेवर्षिः । अस्य ज्ञानोत्तरं नगरे बाह्यचक्रे प्रवेशः । पूजाटोपो व्यर्थत्वात्कृतकार्यत्वाच्च न कार्यः । यदि सर्वथा पूजनेच्छा तदा शिवशक्तिसामरस्यात्मकं मिथुनीभावं विज्ञाय कुर्यात् । तत्सामरस्यमेव चित्तसम्भवस्य मन्मथस्य रहस्यतरं व्रतमिति श्रुत्यर्थः । शिवशक्तिसामरस्यमविज्ञाय क्रियमाणं पूजनं न तथा फलतीति तात्पर्यार्थः । श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ १६९ ॥ षोडशानामक्षराणां समाहार: षोडशाक्षरी । श्रीयुक्ता च सा षोडशाक्षरी च सा विद्या चेति तथा । यद्यपि गौडपादीयसूत्रमप्यविद्याष्टाविंशतिवर्णविशिष्टेति पठ्यते तथापि तत्रत्य कूटत्रयस्य पञ्चदशाक्षररूपतया विभज्य गणनाभिप्रायमित्यविरोधः । श्रीति षोडशमक्षरं यस्यां तादृशी च सा विद्या चेति वा । गौराद्यन्तर्गतस्य आत्मनो विद्या विज्ञानरूपा । विद्यायै इति ॥ अत एव महती सर्वोत्कृष्टा विद्या । विद्यायै इति ॥ श्रीविद्या सौभाग्यरूपा विद्या । विद्यायै इति || कामेन मन्मथेन सेविता । सेवितायै इति ॥ __ श्रीमती सर्वपूज्या षोडशाक्षरीरूपविद्या यस्याः सा । विद्यायै इति ॥ त्रीणि वाग्भवादीनि कूटानि यस्याः सा । कूटायै इति ॥ कामानां कोटि: यस्याः सौन्दर्योपमाभूताः सा । कोटिकायै इति ॥ १६९ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy