________________
Shri Mahavir Jain Aradhana Kendra
202
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
विलापनं च चिद्रूपं बुद्ध्वा केवलरूपतः । स्वयं तिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः ॥ ईदृशीयं परा निष्ठा श्रौती स्वानुभवात्मिका ॥'
Acharya Shri Kailassagarsuri Gyanmandir
इति । अत्र परस्यै शक्त्यै नम इति । परायै निष्ठायै नम इत्याकारकः प्रयोगः । 'अग्नये पवमानायेद'मित्यादाविवोभयत्र चतुर्थ्यन्तताया न्यायसिद्धत्वात् । 'पराशक्तिमित्रं नुमः पञ्चवक्त्रमिति भगवत्पादानां प्रयोगाद्यद्येकं पदं तदा पराशक्त्यै नम इत्येव प्रयुज्य- ताम् । परा मन्त्रस्य या शक्तिस्तद्रूपेत्यर्थः । प्रकृष्टेन वृत्तिभिन्नेन नित्येन ज्ञानेन घनं निरन्तरमविद्यालेशेनाप्यस्पृष्टं रूपमस्याः । तथा च काण्वेषु श्रूयते - 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवेति ।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ १६७॥ माध्वीशब्दः परिपन्थिशब्दवच्छान्दसोऽपि लोके प्रयुज्यते । 'स्वब्रह्मभावहन्त्री साधुविनिन्द्यां सुरां च सरणिं च । अहह कथं नु भजध्ये माध्वीं गौडीं च मोहिनीं मन्दा ॥'
इति । तेन 'छन्दसि परिपन्थिपरिपरिणावितिवत् 'ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसीत्यपि प्रयोगवशाद्भाषासमुच्चयपरं सूत्रैकदेशांशे व्याख्येयम् । छान्दसत्वेऽपि वा नात्र दुष्यति । माध्व्या द्राक्षाजन्यमदिरायाः पानेनालसा | अन्तरेकनिष्ठतया शीतला । अत एव मत्तेव मत्ता यद्वा मच्छब्दोऽहमर्थकस्तस्य भावो मत्ता । परशिवनिष्ठपराहन्तारूपेत्यर्थः । मातृका अकारादिक्षकारान्तास्तासां वर्णाः शुक्लादिरूपाणि तान्येव रूपं स्वरूपमस्याः । तानि च सनत्कुमारसंहितायाम्
'अकाराद्याः स्वरा धूम्राः सिन्दूराभास्तु कादयः । डादिफान्ता गौरवर्णा अरुणाः पञ्च बादयः लकाराद्याः काञ्चनाभा हकारान्त्यौ तटिन्निभौ ।' इति । तन्त्रान्तरे तु -
'स्फटिकाभाः स्वराः प्रोक्ताः स्पर्शा विद्रुमसन्निभाः । यादयो नव पीताः स्युः क्षकारस्त्वरुणो मतः ॥
इति । सर्वे वर्णाः शुक्ला इत्यपि क्वचित् । मातृकाविवेके तु- 'अकारं सर्वदेवत्यं रक्तं सर्ववशङ्कर'मित्यादिना प्रत्यक्षरं वर्णविशेष उक्तः । यद्वा एकपञ्चाशन्मातृकावर्णा एव
माध्व्या मदिरा सदृशानन्दरस्य पानेनास्वादनेन अलसा बाह्यव्यापारविरहिता । अलसायै इति ॥ अत एव मत्ता मदवतीव स्थिता । मत्तायै इति ॥ मातृकावर्णानां अक्षराणां रूपं स्वरूपं अस्याः । रूपिण्यै इति ॥ १६७ ॥
For Private and Personal Use Only