________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
201
सौभाग्यभास्कर-बालातपासहितम् पाशाङ्कशैक्षवशरासनपुष्पबाणैः
सा साक्षिणी विजयते तव मूर्तिरेका ॥ इति । गुरुकलायामपि
'सुरेन्द्ररुद्रपद्मजाच्युतादयोऽपि ये मृतेर्वशंवदा न तस्त्रियः सुवासिनीपदस्पृशः। महेश्वरस्य मृत्युघस्मरस्य साक्षिणी तु या
सुमङ्गलीरियं वधूरिमा समेत पश्यते ॥ इति ॥ १६६ ॥
पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी । देहे दशमधातुः पराशक्तिरित्युच्यते । तदुक्तं कामिकागमे
'त्वगसृङ्मांसमेदोस्थिधातवः शक्तिमूलकाः। मज्जशुक्लप्राणजीवधातवः शिवमूलकाः ॥ नवधातुरयं देहो नवयोनिसमुद्भवः ।
दशमी धातुरेकैव पराशक्तिरितीरिता ॥ इति । यद्वा परोत्कृष्टा शक्तिः । शक्तिमात्रस्वरूपत्वादेवोत्कर्षः 'अन्येभ्योऽपि दृश्यत' इति दीर्घः । 'परास्य शक्तिर्विविधैव श्रूयत' इति श्रुतिः । लैङ्गेऽपि
'यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता । सा सा विश्वेश्वरी देवी शक्तः सर्वो महेश्वरः॥ शक्तिमन्तः पदार्था ये ते वै सर्वविभूतयः ।
पदार्थशक्तयो यायास्तास्ता गौरी विदुर्बुधाः ॥ इति । परा निष्ठा उत्कृष्टा समाप्तिर्ज्ञानविशेषरूपा । सर्वकर्मणां सर्वजगतां चात्रैव समाप्तेः । उक्तञ्च गीतासु- 'सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यत' इति । स च ज्ञानविशेषः सूतगीतायामुक्त:
'शास्त्राचार्योपदेशेन तर्केः शास्त्रानुसारिभिः । सर्वसाक्षितयाऽऽत्मानं सम्यनिश्चित्य सुस्थिरः॥ स्वात्मनोऽन्यतया भातं समस्तमविशेषतः। स्वात्ममात्रतया बुद्ध्वा पुनः स्वात्मानमद्वयम् ॥ शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च । निश्चयं च स्वचिन्मात्रे विलाप्याविक्रियेऽद्वये ॥
परा उत्कृष्टा शक्तिः । परस्यै शक्त्यै इति ॥ परा उत्कृष्टा निष्ठा स्वरूपे स्थितिः, तद्रूपा । परस्यै निष्ठायै इति ॥ प्रज्ञानस्य शुद्धसंविदो घनं एकरसं रूपम् अस्याः । रूपिण्यै इति ।
For Private and Personal Use Only