SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 199 सौभाग्यभास्कर-बालातफासहितम् इत्युक्तम् । कालस्य मृत्योर्हन्त्री । 'ज्ञः कालकालो गुणी सर्वविद्य' इति श्रुतेः । कमलाक्षेण विष्णुना नितरां सेवितोपासिता । उक्तञ्च पद्मपुराणे 'इन्द्रनीलमयीं देवीं विष्णुरर्चयते सदा । विष्णुत्वं प्राप्तवास्तेन ...................' इत्यादि ॥ १६४ ॥ ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा। ताम्बूलेन पूरितं मुखं यस्याः । अस्ति फलविरहितः पुष्पमात्रशाली दाडिमीत्वव्याप्यजातिमान् वृक्षविशेषस्तस्य कुसुमस्येव प्रभा यस्याः । ___मृगाक्षी मोहिनी मुख्या मृडानीमृगस्येवाक्षिणी यस्याः । मोहयतीति मोहिनी । तदुक्तं लघुनारदीयपुराणे 'यस्मादिदं जगत्सर्वं त्वया सुन्दरि मोहितम् । मोहिनीत्येव ते नाम स्वगुणोत्थं भविष्यति ॥ इति । अथवा अमृतमथने यद्विष्णुना मोहिनीरूपं धृतं प्रवरानदीतीरे निवासपुरे निवसति तदस्या एवाभेदभावनया व्यक्तिमापन्नम् । तदुक्तं ब्रह्माण्डपुराणे 'आदौ प्रादुरभूच्छक्तिर्ब्रह्मणो ध्यानयोगतः। प्रकृति म सा ख्याता देवानामिष्टसिद्धिदा॥ द्वितीयमुदभूदूपं प्रवृत्तेऽमृतमन्थने। सर्वसम्मोहजनकमवाङ्मनसगोचरम् ॥ यदर्शनादभूदीशः सर्वज्ञोऽपि विमोहितः।' इत्यादि । तत्रैवाध्यायान्तरे मोहिनीरूपं प्रक्रम्य 'यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम् । तामेवानन्यमनसा ध्यात्वा किञ्चिद्विहस्य स ॥ इत्यादि । मुखे सर्वादौ भवा मुख्या । 'अहमस्मि प्रथमजा ऋतस्येति श्रुतेः । 'मृड सुखने । 'जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम' इति शिवरहस्यात् । सुखप्रदस्य मृडस्य परमशिवस्य पत्नीत्यर्थे आनुगागमविशिष्टो ङीष् । ताम्बूलेन पूरितं मुखं यस्याः सा । मुख्यै इति ॥ दाडिमस्य यत्कुसुमं तस्येव प्रकृष्टाभा अङ्गकान्तिर्यस्याःसा । प्रभायै इति ॥ ____ मृगस्य हरिणस्येवाक्षिणी यस्याः सा । अक्ष्य इति ॥ दुष्टान् मोहयति भ्रामयतीति सा । मोहिन्यै इति ॥ मुख्ये सर्वादौ भवा मुख्या । मुख्यायै इति ॥ मृडस्य शिवस्य स्त्री इति । मृडान्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy