________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
197 इत्यन्तम् । एवं देवीभागवते षष्ठस्कन्धे एकावलीनामिका राजकन्या कालकेतुना दानवेन बद्धा यशोवत्या तत्सख्या स्वोपासितभगवतीमन्त्रबलान्मोचितेति कथा स्मर्यते साप्यत्रोदाहर्तव्या । बन्धुरा उन्नतानता अलकाश्चूर्णकुन्तला यस्याः । बर्बरालकेति तु सम्प्रदायागतपाठः । बर्बरशब्द: संकुचिताग्रह्रस्वकेशेषु रूढः । 'आनीलस्निग्धबर्बरकचाना मिति ललितास्तवरत्ने प्रयोगात् । बर्बरेति पाठेऽपि स एवार्थः । बाबरेत्यपभ्रंशदर्शनाच्च वस्तुतोऽयमेव बहुसंमतः पाठो न बन्धुरेति ॥ १६२ ॥
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः। प्रकाशात्मकस्य परब्रह्मणः स्वाभाविकं स्फुरणं विमर्श इत्युच्यते । तदुक्तं सौभाग्यसुधोदये
'स्वाभाविकी स्फुरत्ता विमर्शरूपास्य विद्यते शक्तिः।
सैव चराचरमखिलं जनयति जगदेतदपि च संहरति ॥ इति । स एव रूपं शक्तिरस्याः । विमर्शो वाचक: शब्दो वा स एव रूपं निरूपकं निरूप्यं चास्याः । तदुक्तं मातृकाविवेके
'वाचकेन विमर्शेन विना किंवा प्रकाश्यते । वाच्येनापि प्रकाशेन विना किंवा विमृश्यते ॥ तस्माद्विमर्शो विस्फूर्ती प्रकाशं समपेक्षते ।
प्रकाशश्चात्मनो ज्ञाने विमर्श समपेक्षते ॥ इति । मोक्षप्रदज्ञानस्वरूपत्वाद्विद्या । 'विद्यासि सा भगवती परमा हि देवी ति देवीमाहात्म्यात् । तथा च गौडपादीयं सूत्रम्-'सैव विद्येति । चैतन्यस्वरूपाशक्तिरिति पूर्वसूत्रोपस्थितायाः शक्तेस्तत्पदेन परामर्शः । तेजोनिष्ठकलाविशेषरूपा वा । तल्लक्षणं च शैवतन्त्रे
'मायाकार्यविवेकेन वेत्ति विद्यापदं यया।
सा कला परमा ज्ञेया विद्या ज्ञानक्रियात्मिका ॥ इति । वियद्योम आदिर्यस्य तज्जगत्प्रसूते । 'आत्मन आकाशः सम्भूत' इत्यादिश्रुतेः।
विमर्शः प्रकाशरूपस्य चिदात्मनः अन्तःसंरम्भरूपा क्रियाशक्तिः । सः रूपं स्वभावः अस्याः । रूपिण्यै इति ॥ विद्या मोक्षसाधनज्ञानरूपिणी । विद्यायै इति ॥ वियदाकाशादिर्यस्य तस्य जगतः प्रसूर्जननी । जगत्प्रसवे इति ॥
For Private and Personal Use Only